NCERT Class 9 Sanskrit Chapter 8 Annad Anandam Prati (Worksheet With Answers)

अष्टमः पाठः: अन्नाद् आनन्दप्रति

(तैत्तिरीयोपनिषद् - भृगुवरुणसंवादः) - अभ्यास प्रश्नोत्तर
गद्यांश 1: भृगु का प्रश्न
(एकदा ब्रह्मज्ञानाय तत्परः वरुणस्य पुत्रः भृगुः सविनयं पितरं प्रति गत्वा निवेदयति)

भृगुः: अयि भोः पितः! अभिवादयेऽहं सादरम्। भगवन्! ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते। किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते? कृपया उपदिशत्।

वरुणः: पुत्र! शुभं भूयात्। ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्। यत्नः अभ्यासश्च क्रियेताम्। तपस्तप्यताम्। तपसैव ज्ञायते।
१. एकपदेन उत्तरत—
  1. कः ब्रह्मज्ञानाय तत्परः आसीत्?
  2. भृगुः कं प्रति निवेदयति?
  3. केन सर्वं जगत् सञ्चाल्यते?
  4. ब्रह्मज्ञानं केन ज्ञायते?
२. पूर्णवाक्येन उत्तरत—
  1. भृगुः पितरं किं पृच्छति?
  2. वरुणः पुत्राय ब्रह्मज्ञानाय किं कर्तुम् अवदत्?
  3. भृगुः पितरं प्रति गत्वा किम् अवदत्?
३. यथानिर्देशम् उत्तरत—
  1. कर्तृपदं चिनुत — "भृगुः पितरं प्रति गत्वा निवेदयति।"
  2. क्रियापदं चिनुत — "अहं सादरम् अभिवादये।"
  3. 'तत्परः वरुणस्य पुत्रः' - अत्र किं विशेषणपदम्?
  4. 'सविनयम्' इति पदस्य पर्यायपदं किम्? (गद्यांशे)
  5. 'पुत्रम्' इति पदस्य विलोमपदं किम्? (गद्यांशे)

१. एकपदेन उत्तरम्—

(क) भृगुः | (ख) पितरम् | (ग) ब्रह्मणा | (घ) तपसा

२. पूर्णवाक्येन उत्तरम्—

(क) भृगुः पितरं पृच्छति यत् किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते।
(ख) वरुणः पुत्राय ब्रह्मज्ञानाय स्वयमेव अन्वेषणं कर्तुं, यत्नं च अभ्यासं च कर्तुं, तपः तप्तुं च अवदत्।
(ग) भृगुः पितरं प्रति गत्वा अवदत् यत् ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते।

३. यथानिर्देशम् उत्तरम्—

(क) कर्तृपदम् — भृगुः
(ख) क्रियापदम् — अभिवादये
(ग) विशेषणपदम् — तत्परः
(घ) पर्यायपदम् — सादरम्
(ङ) विलोमपदम् — पितरम्

गद्यांश 2: अन्नं ब्रह्म
भृगुः: अस्तु तात!

(ततो भृगुः अनेकवर्षाणि तप आचरति। तपस्तप्त्वा पुनः पितरं निकषा गच्छति। पिता तं पृच्छति—)

वरुणः: अयि पुत्र! त्वया किं ज्ञातम्?

भृगुः: भोः पितः! अन्नं वै ब्रह्म इति।

वरुणः: कथम् अन्नं ब्रह्मरूपेण ज्ञातम्?

भृगुः: हे पितः! अन्नाद् एव प्राणिनः जायन्ते। अनेन एव प्राणिनः जीवन्ति। अनेनैव शरीरं बलं च वर्धते। अतोऽन्नं ब्रह्म इति उच्यते हि —

आहारात् सर्वभूतानि सम्भवन्ति महीपते।
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः॥
१. एकपदेन उत्तरत—
  1. भृगुः कति वर्षाणि तपः आचरति?
  2. अन्नाद् एव के जायन्ते?
  3. केन शरीरं बलं च वर्धते?
  4. केन प्राणिनः जीवन्ति?
२. पूर्णवाक्येन उत्तरत—
  1. अन्नं ब्रह्म इति कथं ज्ञातम्?
  2. वरुणः पुत्रं किं पृच्छति?
  3. भृगुः तपसा किं ज्ञातवान्?
३. यथानिर्देशम् उत्तरत—
  1. कर्तृपदं चिनुत — "ततो भृगुः अनेकवर्षाणि तप आचरति।"
  2. क्रियापदं चिनुत — "अन्नाद् एव प्राणिनः जायन्ते।"
  3. 'जीवन्ति' इति पदस्य पर्यायपदं किम्? (गद्यांशे)
  4. 'अन्नेन' इति पदस्य पर्यायपदं किम्? (गद्यांशे)

१. एकपदेन उत्तरम्—

(क) अनेकवर्षाणि | (ख) प्राणिनः | (ग) अन्नेन | (घ) अन्नेन

२. पूर्णवाक्येन उत्तरम्—

(क) अन्नाद् एव प्राणिनः जायन्ते, अनेन एव जीवन्ति, अनेनैव शरीरं बलं च वर्धते इति कारणात् अन्नं ब्रह्म इति ज्ञातम्।
(ख) वरुणः पुत्रं पृच्छति यत् त्वया किं ज्ञातम्।
(ग) भृगुः तपसा 'अन्नं वै ब्रह्म' इति ज्ञातवान्।

३. यथानिर्देशम् उत्तरम्—

(क) कर्तृपदम् — भृगुः
(ख) क्रियापदम् — जायन्ते
(ग) जायन्ते
(घ) आहारेण

गद्यांश 3: प्राणो वै ब्रह्म
भृगुः: अस्तु तात!

(पुनः भृगुः पर्वतं गत्वा बहूनि वर्षाणि तप आचरति। तपस्तप्त्वा पितुः समीपं गच्छति। आगतं पुत्रं दृष्ट्वा पिता पृच्छति—)

वरुणः: हे पुत्र! तपसा त्वया किं ज्ञातम्?

भृगुः: हे पितः! प्राणो वै ब्रह्म इति।

वरुणः: हे भृगो! कथं प्राणो ब्रह्म इति ज्ञातम्?

भृगुः: हे भगवन्! प्राणो हि भूतानाम् आयुः। प्राणे शरीरं प्रतिष्ठितम्। प्राण एव अस्माकं जीवनम्। प्राणेन विना शरीरं क्रियाशून्यं भवति। अतः प्राणो ज्येष्ठः श्रेष्ठश्च। तस्मात् प्राणो वै ब्रह्म इति विज्ञातम्।
१. एकपदेन उत्तरत—
  1. भृगुः तपः कुत्र गत्वा आचरति?
  2. भूतानाम् आयुः कः अस्ति?
  3. कस्मिन् शरीरं प्रतिष्ठितम्?
  4. प्राणेन विना शरीरं कीदृशं भवति?
२. पूर्णवाक्येन उत्तरत—
  1. प्राणो ब्रह्म इति कथं विज्ञातम्?
  2. प्राणो ज्येष्ठः श्रेष्ठश्च किमर्थम् उच्यते?
  3. पिता पुत्रं किं पृच्छति?
३. यथानिर्देशम् उत्तरत—
  1. कर्तृपदं चिनुत — "पुनः भृगुः पर्वतं गत्वा बहूनि वर्षाणि तप आचरति।"
  2. क्रियापदं चिनुत — "प्राणे शरीरं प्रतिष्ठितम्।"
  3. 'पुत्रं' इति पदस्य विलोमपदं किम्? (गद्यांशे)
  4. 'क्रियाशून्यम्' इति विशेषणपदस्य विशेष्यपदं किम्? (गद्यांशे)

१. एकपदेन उत्तरम्—

(क) पर्वतम् | (ख) प्राणः | (ग) प्राणे | (घ) क्रियाशून्यम्

२. पूर्णवाक्येन उत्तरम्—

(क) प्राणो हि भूतानाम् आयुः, प्राणे शरीरं प्रतिष्ठितम्, प्राणेन विना शरीरं क्रियाशून्यं भवति अतः प्राणो ब्रह्म इति विज्ञातम्।
(ख) प्राणः एव अस्माकं जीवनम् अस्ति, प्राणेन विना शरीरं क्रियाशून्यं भवति, अतः प्राणो ज्येष्ठः श्रेष्ठश्च उच्यते।
(ग) पिता पुत्रं पृच्छति यत् तपसा त्वया किं ज्ञातम्।

३. यथानिर्देशम् उत्तरम्—

(क) कर्तृपदम् — भृगुः
(ख) क्रियापदम् — प्रतिष्ठितम्
(ग) विलोमपदम् — पिता
(घ) विशेष्यपदम् — शरीरम्

गद्यांश 4: मनो वै ब्रह्म
भृगुः: अस्तु पितः!

(सः पुनः बहुकालं यावद् वनं गत्वा तपश्चर्यां करोति। तपस्तप्त्वा प्रसन्नवदनो वरुणं निकषा प्राप्नोति, वरुणः भृगुं पृच्छति—)

वरुणः: हे पुत्र! त्वया तपसा किं ज्ञातम्?

भृगुः: हे तात! मया तपसा मनो वै ब्रह्म इति ज्ञातम्।

वरुणः: पुत्र! कथं मनो वै ब्रह्म इति?

भृगुः: हे पितः! मया तपसा एवम् अनुभूतं यद् अस्माकं मन एव सर्वकर्मणः प्रवर्तकम्। समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते। मानवः मनसा एव सर्वं कार्यं सम्पादयति। मनसः सङ्कल्पाः, भावाः, विचाराश्च जायन्ते। अतो मनो वै ब्रह्म इति।
१. एकपदेन उत्तरत—
  1. भृगुः तपश्चर्यां कुत्र गत्वा करोति?
  2. सर्वकर्मणः प्रवर्तकं किम् अस्ति?
  3. समस्तानि इन्द्रियाणि केन सञ्चाल्यन्ते?
  4. मनसः के जायन्ते?
२. पूर्णवाक्येन उत्तरत—
  1. मनो वै ब्रह्म इति कथं ज्ञातम्?
  2. मानवः केन सर्वं कार्यं सम्पादयति?
  3. वरुणः भृगुं दृष्ट्वा किं पृच्छति?
३. यथानिर्देशम् उत्तरत—
  1. कर्तृपदं चिनुत — "सः पुनः बहुकालं यावद् वनं गत्वा तपश्चर्यां करोति।"
  2. क्रियापदं चिनुत — "मनसः सङ्कल्पाः जायन्ते।"
  3. 'समस्तानि इन्द्रियाणि' अत्र किं विशेष्यपदम्?
  4. 'दूरम्' इति पदस्य विलोमपदं गद्यांशे किम्?

१. एकपदेन उत्तरम्—

(क) वनम् | (ख) मनः | (ग) मनसा | (घ) सङ्कल्पाः, भावाः, विचाराश्च

२. पूर्णवाक्येन उत्तरम्—

(क) अस्माकं मन एव सर्वकर्मणः प्रवर्तकम्, समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते अतः मनो वै ब्रह्म इति ज्ञातम्।
(ख) मानवः मनसा एव सर्वं कार्यं सम्पादयति।
(ग) वरुणः भृगुं पृच्छति यत् त्वया तपसा किं ज्ञातम्।

३. यथानिर्देशम् उत्तरम्—

(क) कर्तृपदम् — सः
(ख) क्रियापदम् — जायन्ते
(ग) इन्द्रियाणि
(घ) निकषा

गद्यांश 5: विज्ञानं वै ब्रह्म
भृगुः: अस्तु श्रीमन्!

(पुनः भृगुः बहुकालं यावत् कठोरं तपः कुरुते, तपः कृत्वा पितुः समीपं प्राप्नोति, पिता तं पृच्छति)

वरुणः: हे भृगो! तपसा किम् अनुभूतम्?

भृगुः: हे पितः! मया तपसा सूक्ष्मज्ञानेन च इदं ज्ञातं यद् विज्ञानं वै ब्रह्म इति।

वरुणः: पुत्र! किं नाम विज्ञानम्?

भृगुः: हे भगवन्! बुद्धितत्त्वमेव विज्ञानम्।

वरुणः: पुत्र! कथं विज्ञानं (बुद्धितत्त्वम्) ब्रह्म इति विज्ञातम्?

भृगुः: हे पितः! बुद्धितत्त्वं विना अस्माकं बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च विकासो न भवित। बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति। समग्रज्ञानं बुद्धौ एव विद्यते। अत एव विज्ञानं वै ब्रह्म इति।
१. एकपदेन उत्तरत—
  1. विज्ञानं किम् अस्ति?
  2. सारथिरूपेण अस्मान् कर्मणि कः प्रवर्तयति?
  3. समग्रज्ञानं कुत्र विद्यते?
  4. बुद्धितत्त्वं विना कस्य विकासो न भवति?
२. पूर्णवाक्येन उत्तरत—
  1. विज्ञानं वै ब्रह्म इति कथं ज्ञातम्?
  2. बुद्धितत्त्वं विना काः शक्तयः विकसितुं न शक्नुवन्ति?
  3. वरुणः भृगुं किं पृच्छति?
३. यथानिर्देशम् उत्तरत—
  1. कर्तृपदं चिनुत — "पुनः भृगुः बहुकालं यावत् कठोरं तपः कुरुते।"
  2. क्रियापदं चिनुत — "बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति।"
  3. 'बुद्धितत्त्वम्' इति पदस्य पर्यायपदं किम्? (गद्यांशे)
  4. 'कठोरं' इति विशेषणपदस्य विशेष्यपदं किम्? (गद्यांशे)

१. एकपदेन उत्तरम्—

(क) बुद्धितत्त्वम् | (ख) बुद्धिः | (ग) बुद्धौ | (घ) बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च

२. पूर्णवाक्येन उत्तरम्—

(क) बुद्धितत्त्वं विना अस्माकं बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च विकासो न भवति, बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति अतः विज्ञानं वै ब्रह्म इति ज्ञातम्।
(ख) बोधशक्तिः, तर्कशक्तिः, विवेकशक्तिः, निर्णयशक्तिः, स्मृतिशक्तिश्च।
(ग) वरुणः भृगुं पृच्छति यत् तपसा किम् अनुभूतम्।

३. यथानिर्देशम् उत्तरम्—

(क) कर्तृपदम् — भृगुः
(ख) क्रियापदम् — प्रवर्तयति
(ग) पर्यायपदम् — विज्ञानम्
(घ) विशेष्यपदम् — तपः

गद्यांश 6: आनन्दो वै ब्रह्म
भृगुः: अस्तु श्रीमन्! (भृगुः पुनः बहुकालं यावत् तपश्चर्यां करोति। तपस्तप्त्वा प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति।)

वरुणः: भोः वत्स! तपसा त्वया किं विज्ञातम्?

भृगुः: हे भगवन्! अत्यन्तं सूक्ष्मचिन्तनेन तपसा च मया एवम् अवबुद्धम् आनन्दो वै ब्रह्म इति।

वरुणः: हे पुत्र! कथम् आनन्दो वै ब्रह्म इति?

भृगुः: हे पितः! अस्माकं सर्वकर्माणि आनन्दाय भवन्ति। अस्माकं कर्मणो लक्ष्यम् आनन्दप्राप्तिरेव। आनन्देन एव प्राणिनो जीवन्ति। आनन्देन रहितं जीवनं मृत्युरूपमिति। तस्मात् आनन्दो वै ब्रह्म इति।
१. एकपदेन उत्तरत—
  1. भृगुः किं अवबुद्धवान्?
  2. अस्माकं कर्मणः लक्ष्यं किम् अस्ति?
  3. के आनन्देन जीवन्ति?
  4. आनन्देन रहितं जीवनं कीदृशम् अस्ति?
२. पूर्णवाक्येन उत्तरत—
  1. आनन्दो वै ब्रह्म इति कथं विज्ञातम्?
  2. भृगुः पितुः निकटे कीदृशः समुपस्थितो भवति?
  3. पिता पुत्रं किं पृच्छति?
३. यथानिर्देशम् उत्तरत—
  1. कर्तृपदं चिनुत — "भृगुः पुनः बहुकालं यावत् तपश्चर्यां करोति।"
  2. क्रियापदं चिनुत — "अस्माकं सर्वकर्माणि आनन्दाय भवन्ति।"
  3. 'जीवनम्' इति पदस्य विलोमपदं किम्? (गद्यांशे)
  4. 'समीपे' इति पदस्य पर्यायपदं किम्?

१. एकपदेन उत्तरम्—

(क) आनन्दो वै ब्रह्म इति | (ख) आनन्दप्राप्तिः | (ग) प्राणिनः | (घ) मृत्युरूपम्

२. पूर्णवाक्येन उत्तरम्—

(क) अस्माकं सर्वकर्माणि आनन्दाय भवन्ति, अस्माकं कर्मणो लक्ष्यम् आनन्दप्राप्तिरेव, आनन्देन एव प्राणिनो जीवन्ति, अतः आनन्दो वै ब्रह्म इति विज्ञातम्।
(ख) भृगुः प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति।
(ग) पिता पुत्रं पृच्छति यत् तपसा त्वया किं विज्ञातम्।

३. यथानिर्देशम् उत्तरम्—

(क) कर्तृपदम् — भृगुः
(ख) क्रियापदम् — भवन्ति
(ग) विलोमपदम् — मृत्युः
(घ) निकटे

७. प्रश्ननिर्माणं कुरुत (रेखांकितपदम् आश्रित्य)

निर्देशः — अधोलिखितवाक्येषु रेखांकितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत।

  1. भृगुः अनेकवर्षाणि तपः आचरति।
  2. मनसा समस्तानि इन्द्रियाणि सञ्चाल्यन्ते।
  3. भृगुः प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति।
  4. भृगुः वरुणस्य पुत्रः आसीत्।
  5. भृगुः तपसा ब्रह्म ज्ञातवान्।
  6. प्राणे शरीरं प्रतिष्ठितम्।
  7. बुद्धितत्त्वं विना स्मृतिशक्तेः विकासो न भवति।
  8. वनं गत्वा भृगुः तपश्चर्यां करोति।
  9. आनन्देन एव प्राणिनः जीवन्ति।
  10. पिता पुत्रं ''किं ज्ञातम्'' इति पृच्छति।

उत्तराणि—

१. कः अनेकवर्षाणि तपः आचरति?
२. मनसा समस्तानि कानि सञ्चाल्यन्ते?
३. भृगुः कथं पितुः निकटे समुपस्थितो भवति?
४. भृगुः कस्य पुत्रः आसीत्?
५. भृगुः केन ब्रह्म ज्ञातवान्?
६. प्राणे किम् प्रतिष्ठितम्?
७. बुद्धितत्त्वं विना कस्याः विकासो न भवति?
८. कुत्र गत्वा भृगुः तपश्चर्या करोति?
९. आनन्देन एव के जीवन्ति?
१०. पिता कम् ''किं ज्ञातम्'' इति पृच्छति?

Post a Comment

Previous Post Next Post