Clas 9 &10_CBSE_Sanskrit Curriculum- 2026-27 (सी.बी.एस्.ई संस्कृत-पाठ्यक्रम 2026-27)

CBSE संस्कृत पाठ्यक्रमः (2026-27)

कक्षा नवमी एवं दशमी (कोड्-119) परीक्षा-संरचना, अङ्कविभाजनम् तथा पूर्ण-पाठ्यक्रमः

कक्षा - नवमी (2026-27)

संस्कृतम् (पाठ्यक्रमः परीक्षानिर्देशाश्च)

📌 शिक्षणोद्देश्यानि शिक्षणप्रविधयश्च
भाष्यते व्यवहारादिषु प्रयुज्यते इति भाषा। मानवः स्वमनसि विद्यमानान् विचारान् भावनाः अनुभूतिं च अर्थयुक्तैः ध्वनिभिः लिखितसङ्केतैः च व्यक्तीकरोति सा भाषा। लोके बहव्यः भाषाः सन्ति यासु संस्कृतभाषा प्राचीनतमा समृद्धा च अस्ति।
🎯 शिक्षणोद्देश्यानि:
  • भाषायाः प्रभावपूर्णसम्प्रेषणाय विविधानां मौखिकलेखनाभ्यासानां नवमाध्यमानां च प्रयोगः करणीयः भविष्यति। यथा - चर्चा भाषणानि सन्दर्शनानि निबन्धाः पत्रलेखनं विद्युन्मानपत्रं (email) दृश्यश्रव्यमाध्यमानि च इत्यादयः वर्तन्ते।
  • वसुधैव कुटुम्बकम् इति भावनाविकासः।
  • भारतीयभाषाणां संरक्षणम्।
  • संस्कृतभाषया सम्प्रेषणकौशलविकासः।
  • परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
  • संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
  • श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक कौशलानां विकासः।
  • बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
  • निर्णयात्मिकायाः बुद्धेः विकासः।
  • तार्किकचिन्तनेन सह निर्भीकवक्तृत्वकौशलस्य विकासः।
  • मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च।
  • भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
  • आत्मानुशासनसंस्थापनार्थं शिक्षणम्।
  • सर्जनात्मकचिन्तनकौशलस्य विकासः।
  • सामाजिकचेतनायाः विकासः।
  • भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः।
  • परस्परं वार्तालापमाध्यमेन भावविनिमयः।
  • संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः।
  • मानवजीवनस्य विकासपूर्वकं कल्याणम्।
  • संस्कृतभाषया छात्राणां सर्वविधविकासः।
⚙️ कौशलानि:
  • श्रवणकौशलम्: भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम्। अस्य साधनानि- गुरुमुखम्, आकाशवाणी, दूरवाणी, परिवारसदस्याः, समाजः, कक्ष्याः, ध्वनिमुद्रणयन्त्रम्, दूरदर्शनम् इत्यादीनि।
  • भाषणकौशलम्: भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम्। वाग्-रूपं भावप्रकटनम् एव भाषणम्, परिसरप्रभावेण आधारेण वा भाषणशक्तिः जायते।
  • पठनकौशलम्: भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम्। (अर्थग्रहणपूर्वकं स्पष्टरूप-वाचनम् इत्यर्थः)
  • लेखनकौशलम्: भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम्। (ध्वनिरूपे विद्यमानं भाषांशं लिपिरूपे अवतारणं लेखनम् इति उच्यते)
  • ज्ञानात्मक-अवबोधनात्मक-अनुप्रयोगात्मक-विश्लेषणात्मक-संश्लेषणात्मक-मूल्याङ्कनात्मक-लक्षिताधिगमनविशेषाः।
📊 प्रश्नपत्र-संरचना एवं अङ्कविभाजनम् (कक्षा 9)

आहत्य-अङ्काः: 80 (वार्षिकपरीक्षा) + 20 (आन्तरिकमूल्याङ्कनम्) = 100 अङ्काः

खण्डः विषयाः अङ्काः
'क' खण्डः अपठितावबोधनम् 10 अङ्काः
'ख' खण्डः रचनात्मककार्यम् 15 अङ्काः
'ग' खण्डः अनुप्रयुक्तव्याकरणम् 25 अङ्काः
'घ' खण्डः पठितावबोधनम् 30 अङ्काः
सम्पूर्णभारः 80 अङ्काः
📋 प्रश्नप्रकारानुसारम् अङ्कभारः (कक्षा 9):
प्रश्नप्रकारः प्रतिप्रश्नम् अङ्कभारः प्रश्नानां सङ्ख्या विभाग-सङ्ख्या आहत्याङ्काः
अति-लघूत्तरात्मकाः 1 अङ्कः 2=2 1 2
अति-लघूत्तरात्मकाः ½ अङ्कः 2+2+2=6 3 3
बहुविकल्पात्मकाः 1 अङ्कः 3+3+3+3+3+3=21 7 21
लघूत्तरात्मकाः ½ अङ्कः 4+4=8 2 4
लघूत्तरात्मकाः 1 अङ्कः 1+3+3+2+2=13 6 13
दीर्घोत्तरात्मकाः 1 अङ्कः 2+2+2+5+4=15 5 15
दीर्घोत्तरात्मकाः 2 अङ्कौ 2=2 1 4
निबन्धात्मकाः 3 अङ्काः 1=1 1 3
निबन्धात्मकाः 5 अङ्काः 1+1+1=3 3 15
आहत्याङ्काः 80
📖 विस्तृतः पाठ्यक्रमः (कक्षा - नवमी)
क्र. सं. विस्तृत-विषयाः प्रश्नप्रकाराः मूल्यभारः
'क' खण्डः - अपठितावबोधनम् (10 अङ्काः)
1. एकः अपठितः गद्यांशः (80-100 शब्दपरिमितः)
• एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम् (2+4)
• शीर्षकलेखनम् (1)
• अनुच्छेदाधारितं भाषिकं कार्यम् (3)
(कर्तृ-क्रियापदचयनम्, कर्तृ-क्रिया-अन्वितिः, विशेषण-विशेष्यचयनम्, पर्याय-विलोमपदचयनम्, सर्वनामस्थाने संज्ञाप्रयोगः)
अति-लघूत्तरात्मकौ
दीर्घोत्तरात्मकौ
शीर्षकम्
बहुविकल्पात्मकाः
2 × 1 = 2
2 × 2 = 4
1 × 1 = 1
3 × 1 = 3
(10 अङ्काः)
'ख' खण्डः - रचनात्मककार्यम् (15 अङ्काः)
2. सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिकं पत्रलेखनम्
(मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णं पत्रं लेखनीयम्)
निबन्धात्मकः 10 × ½ = 5
3. चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम्
(मञ्जूषायाः सहायतया चित्रवर्णनम् अनुच्छेदलेखनं वा करणीयम्)
निबन्धात्मकः 5 अङ्काः
4. संवादपूर्तिः / कथापूर्तिः
(मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णः संवादः / कथा लेखनीया)
निबन्धात्मकः 10 × ½ = 5
'ग' खण्डः - अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
5. सन्धिकार्यम्:
• स्वरसन्धिः: दीर्घः, गुणः, वृद्धिः, यण्, अयादि, पूर्वरूपम्
• व्यञ्जनसन्धिः: जश्त्वसन्धिः, 'म्' स्थाने अनुस्वारः, तुगागमः
• विसर्गसन्धिः: उत्वम्, विसर्गस्य सत्वम्, शत्वम्, षत्वम्, रत्वम्
लघूत्तरात्मकाः 3 × 1 = 3
6. कारक-उपपद-विभक्तयः:
• द्वितीया - उभयतः, धिक्, परितः, समया, निकषा, प्रति, विना
• तृतीया - सह, साकम्, समम्, सार्धम्, विना, अलम्, सदृश, हीन
• चतुर्थी - रुच्, दा (यच्छ), नमः, कुप्, स्वस्ति
• पञ्चमी - विना, बहिः, भी, रक्ष, ऋते
• षष्ठी - उपरि, अधः, पुरतः, पृष्ठतः, निर्धारणे
• सप्तमी - स्त्रिह्, निपुणः, विश्वस्, पटु
बहुविकल्पात्मकाः 3 × 1 = 3
7. शब्दरूपाणि:
• पुँल्लिङ्गशब्दाः - बालकवत्, कविवत्, साधुवत्, पितृवत्, राजन्, भवत्, विद्वस्, गुणिन्
• स्त्रीलिङ्गशब्दाः - लतावत्, मतिवत्, नदीवत्, मातृवत्, धेनुवत्
• नपुंसकलिङ्गशब्दाः - फलवत्, वारि, जगत्, मनस्, चक्षुष्
• सर्वनामशब्दाः - तत्, इदम्, किम् (त्रिषु लिङ्गेषु), अस्मद्, युष्मद्
बहुविकल्पात्मकाः 3 × 1 = 3
8. धातुरूपाणि:
• परस्मैपदिनः - पठ्, गम्, वद्, भू, क्रीड्, नी, दृश्, शक्, ज्ञा, अस्, कृ, दा, क्री, श्रु, पा (पिब्) (पञ्चसु लकारेषु)
• आत्मनेपदिनः - सेव्, लभ्, रुच्, मुद्, वृध् (लट्-लृट्-लोट्-लकारेषु)
• उभयपदिनः - कृ, पच्, नी, कृष्, हृ, भज् (केवलं लट्लकारे)
बहुविकल्पात्मकाः 3 × 1 = 3
9. प्रत्ययाः: क्त्वा, तुमुन्, ल्यप्, क्त, क्तवतु, शतृ, शानच् बहुविकल्पात्मकाः 3 × 1 = 3
10. समासः: तत्पुरुषः (विभक्ति-नञ्-उपपद-कर्मधारय) बहुविकल्पात्मकाः 3 × 1 = 3
11. सङ्ख्या: १-१०० (१-४ केवलं प्रथमा-विभक्तौ) लघूत्तरात्मकाः 3 × 1 = 3
12. उच्चारणस्थानानि लघूत्तरात्मकाः 4 × ½ = 2
13. अव्ययानि:
• स्थानबोधकानि - अत्र, तत्र, अन्यत्र, सर्वत्र, यत्र, एकत्र, उभयत्र
• कालबोधकानि - यदा, तदा, सर्वदा, एकदा, पुरा, अधुना, अद्य, श्वः, ह्यः
• प्रश्नबोधकानि - किम्, कुत्र, कति, कदा, कुतः, कथम्, किमर्थम्
• अन्यानि - च, अपि, यदि, तर्हि, यथा, तथा, सम्यक्, एव, तु
लघूत्तरात्मकाः 4 × ½ = 2
'घ' खण्डः - पठितावबोधनम् (30 अङ्काः)
14. गद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्) अति-लघूत्तरात्मकौ
दीर्घोत्तरात्मकौ
भाषिककार्यम्
2 × ½ = 1
2 × 1 = 2
2 × 1 = 2
(5 अङ्काः)
15. पद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्) अति-लघूत्तरात्मकौ
दीर्घोत्तरात्मकौ
भाषिककार्यम्
2 × ½ = 1
2 × 1 = 2
2 × 1 = 2
(5 अङ्काः)
16. नाट्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्) अति-लघूत्तरात्मकौ
दीर्घोत्तरात्मकौ
भाषिककार्यम्
2 × ½ = 1
2 × 1 = 2
2 × 1 = 2
(5 अङ्काः)
17. वाक्येषु रेखाङ्कितपदानि अधिकृत्य उचितप्रश्ननिर्माणम् दीर्घोत्तरात्मकः 5 × 1 = 5
18. अन्वयः अथवा भावार्थः (रिक्तस्थानपूर्तिः) दीर्घोत्तरात्मकः 4 × 1 = 4
19. पाठाधारित-कथापूर्तिः (मञ्जूषापदसहायतया रिक्तस्थानपूर्तिः) निबन्धात्मकः 6 × ½ = 3
20. प्रसङ्गानुकूलम् अर्थचयनम् बहुविकल्पात्मकाः 3 × 1 = 3
📚 परीक्षायै निर्धारिताः पाठाः / निर्धारितपाठ्यपुस्तकम्:
• पाठ्यपुस्तकम्: 'शारदा' (रा.शै.अनु.प्र.परि. द्वारा प्रकाशितम् - शीघ्रमेव सूचयिष्यते)
• अनुप्रयुक्तव्याकरणस्य अंशानां चयनं यथासम्भवं पाठ्यपुस्तकात् करणीयम्।
📝 आन्तरिक-मूल्याङ्कनम् (कक्षा 9 - 20 अङ्काः)
क्र. सं. गतिविधयः उदाहरणानि अङ्काः मूल्याङ्कनबिन्दवः
1. आवधिक-परीक्षाः
(पीरियोडिक-असैस्मेण्ट)
लिखितपरीक्षा 05 • परीक्षासु यत्र विद्यार्थिनः श्रेष्ठाः अङ्काः स्युः तयोः द्वयोः परीक्षयोः एव अधिभारः ग्रहीतव्यः।
2. बहुविधमूल्याङ्कनम् • निर्गतपत्राणि, प्रश्नोत्तरी, मौखिकी परीक्षा, प्रतियोगिताः, प्रश्नमञ्चस्यायोजनम् 05 • मौलिकता, विषयसम्बद्धता, शुद्धता, समयबद्धता, प्रस्तुतीकरणम्।
3. निवेशसूचिका
(पोर्टफोलियो)
• कक्षाकार्यम्, सामूहिक-मूल्याङ्कनम्, स्वमूल्याङ्कनम्, उपलब्धयः 05 • सुलेखः, तथ्यात्मकता, प्रामाणिकता, समयबद्धता।
4. भाषा-संवर्धनाय गतिविधयः (क) श्रवण-भाषणकौशलम्: कथा, संवादः, भाषणम्, नाटकम्, आशुभाषणम्, श्लोकोच्चारणम्
(ख) लेखनकौशलम्: मौलिकलेखनम्, प्रतिवेदनलेखनम्, कथालेखनम्, श्रुतलेखः
05 • उच्चारणम्, शुद्धता, समयबद्धता, प्रस्तुतीकरणम्, विषय-सम्बद्धता।

कक्षा - दशमी (2026-27)

संस्कृतम् (सम्प्रेषणात्मकम्) | विषय-कोड्-सङ्ख्या - 119 | पाठ्यपुस्तकम् - 'मणिका भाग 2'

📌 शिक्षणोद्देश्यानि शिक्षणप्रविधयश्च (कक्षा 10)
या अन्तस्स्थले विद्यमानान् विविधविचारान् भावान् विविधाः अनुभूतीः च सार्थकैः ध्वनिभिः लिखितैः सङ्केतैः च प्रकटयति व्यक्तीकरोति सा भाषा। समाजे जनानां परस्परं भावग्रहणाय, भावविनिमयाय भावावबोधनाय च भाषा एव सरलतमं स्पष्टतमं च साधनं विद्यते।
🎯 शिक्षणोद्देश्यानि:
  • वसुधैव कुटुम्बकम् इति भावनाविकासः।
  • भारतीयभाषाणां संरक्षणम्।
  • संस्कृतभाषया सम्प्रेषणकौशलविकासः।
  • परस्परं संस्कृतसम्भाषणेन भावविनिमयः।
  • संस्कृत-भाषया एव संस्कृत-शिक्षणम्।
  • श्रवण-भाषण-पठन-लेखनेति चतुर्णां भाषिक कौशलानां विकासः।
  • बौद्धिकविकासपुरस्सरम् आध्यात्मिकनैतिकज्ञानम्।
  • मानसिकविकासानन्दानुभूतिः रसानुभूतिश्च।
  • भारतीयसंस्कृतेः संरक्षणं ज्ञानवर्धनञ्च।
  • आत्मानुशासनसंस्थापनम्।
  • भाषाशिक्षणकौशलानि वर्धनाय नैपुण्यप्राप्तिः।
  • संस्कृतसाहित्यस्य अध्ययनेन ज्ञानानन्दस्य अनुभूतिः।
  • मानवजीवनस्य विकासपूर्वकं कल्याणम्।
  • संस्कृतभाषया छात्राणां सर्वविधविकासः।
⚙️ कौशलानि:
  • श्रवणकौशलम्: भावाधिग्रहणाय ध्वन्यात्मकं भाषायाः प्रथमं कौशलम् इदम्।
  • भाषणकौशलम्: भावाभिव्यक्तये ध्वन्यात्मकं भाषायाः इदं द्वितीयं कौशलम्।
  • पठनकौशलम्: भावाधिग्रहणाय लिप्यात्मकं भाषायाः तृतीयं कौशलम् इदम्।
  • लेखनकौशलम्: भावाभिव्यक्तये लिप्यात्मकं भाषायाः चतुर्थं कौशलम् इदम्।
📊 प्रश्नपत्र-संरचना एवं अङ्कविभाजनम् (कक्षा 10 - कोड 119)

आहत्य-अङ्काः: 80 (वार्षिकपरीक्षा) + 20 (आन्तरिकमूल्याङ्कनम्) = 100 अङ्काः

भागः विषयाः अङ्काः
'क' भागः अपठितावबोधनम् 10 अङ्काः
'ख' भागः रचनात्मककार्यम् 15 अङ्काः
'ग' भागः अनुप्रयुक्तव्याकरणम् 25 अङ्काः
'घ' भागः पठितावबोधनम् 30 अङ्काः
सम्पूर्णभारः 80 अङ्काः
📋 प्रश्नप्रकारानुसारम् अङ्कभारः (कक्षा 10):
प्रश्नप्रकारः अङ्कभारः प्रश्नानां सङ्ख्या विभाग-सङ्ख्या प्रतिप्रश्नम् आहत्याङ्काः
बहुविकल्पात्मकाः 1 अङ्कः 3+4+4+3+4=18 5 1 18
अति-लघूत्तरात्मकाः ½ अङ्कः 2+2+2=6 3 ½ 3
अति-लघूत्तरात्मकाः 1 अङ्कः 2=2 1 1 2
निबन्धात्मकः (रिक्तस्थानपूर्तिः) ½ अङ्कः 10+10+4+8=32 4 ½ 16
दीर्घोत्तरात्मकाः 1 अङ्कः 5+2+2+2+5=16 5 1 16
दीर्घोत्तरात्मकाः 2 अङ्कौ 2=2 1 2 4
लघूत्तरात्मकाः 1 अङ्कः 1+4+3+3+4+2+2+2=21 8 1 21
आहत्याङ्काः 80
📖 विस्तृतः पाठ्यक्रमः (कक्षा - दशमी, कोड 119)
क्र. सं. विस्तृत-विषयाः प्रश्नप्रकाराः मूल्यभारः
'क' भागः - अपठितावबोधनम् (10 अङ्काः)
1. एकः अपठितः गद्यांशः (80-100 शब्दपरिमितः)
• एकपदेन पूर्णवाक्येन च अवबोधनात्मकं कार्यम् (2+4)
• शीर्षकलेखनम् (1)
• गद्यांशाधारितं भाषिकं कार्यम् (3)
(वाक्ये कर्तृ-क्रियापदचयनम्, विशेषण-विशेष्यचयनम्, पर्याय-विलोमपदचयनम्)
अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकौ
शीर्षकम्
भाषिककार्यम्
2 × 1 = 2
2 × 2 = 4
1 × 1 = 1
3 × 1 = 3
(10 अङ्काः)
'ख' भागः - रचनात्मककार्यम् (15 अङ्काः)
2. सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिकं पत्रलेखनम्
(मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णं पत्रं लेखनीयम्)
निबन्धात्मकः 10 × ½ = 5
3. चित्राधारितं वर्णनम् अथवा अनुच्छेदलेखनम्
(मञ्जूषायाः सहायतया चित्रवर्णनम् अनुच्छेदलेखनं वा करणीयम्)
पूर्णवाक्यात्मकः 5 × 1 = 5
4. संवादपूर्तिः / कथापूर्तिः
(मञ्जूषायाः सहायतया रिक्तस्थानपूर्तिमाध्यमेन पूर्णः संवादः / कथा लेखनीया)
निबन्धात्मकः 10 × ½ = 5
'ग' भागः - अनुप्रयुक्तव्याकरणम् (25 अङ्काः)
5. सन्धिकार्यम्:
• स्वरसन्धिः (1 अङ्कः): वृद्धिः, यण्, अयादिः, पूर्वरूपम्
• व्यञ्जनसन्धिः (1 अङ्कः): परसवर्णः (अनुस्वारस्थाने पञ्चमवर्णस्य प्रयोगः), तुगागमः, वर्गीयप्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्
• विसर्गसन्धिः (2 अङ्कौ): उत्वम्, रत्वम्, विसर्गलोपः, विसर्गस्य स्थाने स्, श्, ष्
लघूत्तरात्मकाः 4 × 1 = 4
6. समासाः:
• तत्पुरुषः - विभक्तिः, नञ्, उपपदः (2 अङ्कौ)
• द्वन्द्वः (1 अङ्कः)
• अव्ययीभावः - अनु, उप, सह, निर्, प्रति, यथा (1 अङ्कः)
बहुविकल्पात्मकाः 4 × 1 = 4
7. प्रत्ययाः:
• कृत्प्रत्ययौ - तव्यत्, अनीयर् (1 अङ्कः)
• तद्धिताः - मतुप्, ठक्, त्व, तल् (2 अङ्कौ)
• स्त्रीप्रत्ययौ - टाप्, ङीप् (1 अङ्कः)
बहुविकल्पात्मकाः 4 × 1 = 4
8. वाच्यपरिवर्तनम्: केवलं लट्लकारे (कर्तृ-कर्म-क्रिया) लघूत्तरात्मकाः 3 × 1 = 3
9. समयः: अङ्कानां स्थाने शब्देषु समयलेखनम् (सामान्य-सपाद-सार्ध-पादोन) लघूत्तरात्मकाः 3 × 1 = 3
10. अव्ययानि: इव, उच्चैः, एव, नूनम्, इतस्ततः, विना, तु, सहसा, वृथा, शनैः, इति, मा, यत्, अथ, सम्प्रति, इदानीम्, अधुना, यावत्-तावत्, बहिः, कदापि, च, अपि, पुरा, अत्र-तत्र, यथा-तथा, कदा, अद्य, श्वः, परश्वः, ह्यः, परह्यः, किमर्थम्, कुत्र, यदि-तर्हि, अतः। लघूत्तरात्मकाः 4 × 1 = 4
11. अशुद्धि-संशोधनम्: वचन-लिङ्ग-पुरुष-लकार-दृष्ट्या संशोधनम् बहुविकल्पात्मकाः 3 × 1 = 3
'घ' भागः - पठितावबोधनम् (30 अङ्काः)
12. गद्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्) अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकौ
भाषिककार्यम्
2 × ½ = 1
2 × 1 = 2
2 × 1 = 2
(5 अङ्काः)
13. पद्यम् (श्लोकम्/श्लोकौ) अधिकृत्य अवबोधनात्मकं कार्यम् (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्) अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकौ
भाषिककार्यम्
2 × ½ = 1
2 × 1 = 2
2 × 1 = 2
(5 अङ्काः)
14. नाट्यांशम् अधिकृत्य अवबोधनात्मकं कार्यम् (एकपदेन, पूर्णवाक्येन, भाषिककार्यम्) अति-लघूत्तरात्मकौ
पूर्णवाक्यात्मकौ
भाषिककार्यम्
2 × ½ = 1
2 × 1 = 2
2 × 1 = 2
(5 अङ्काः)
15. वाक्येषु रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणम् पूर्णवाक्यात्मकाः 5 × 1 = 5
16. एकस्य श्लोकस्य अन्वयः अथवा भावार्थः (मञ्जूषायाः सहायतया) निबन्धात्मकः 4 × ½ = 2
17. प्रसङ्गानुसारम् अर्थचयनम् (बहुविकल्पात्मकाः प्रश्नाः) बहुविकल्पात्मकाः 4 × 1 = 4
18. पाठाधारित-कथापूर्तिः (मञ्जूषापदसहायतया रिक्तस्थानपूर्तिः) निबन्धात्मकः 8 × ½ = 4
📚 परीक्षायै निर्धारिताः पाठाः (मणिका भाग-2):
पाठसङ्ख्या पाठनाम पाठसङ्ख्या पाठनाम
प्रथमः पाठः वाङ्मयं तपः सप्तमः पाठः साधुवृत्तिं समाचरेत्
द्वितीयः पाठः नास्ति त्यागसमं सुखम् अष्टमः पाठः तिरुक्कुरल्-सूक्ति-सौरभम्
तृतीयः पाठः रमणीया हि सृष्टिः एषा नवमः पाठः सुस्वागतं भो ! अरुणाचलेऽस्मिन्
चतुर्थः पाठः आज्ञा गुरूणां हि अविचारणीया दशमः पाठः कालोऽहम् केवलम् आन्तरिकमूल्याङ्कनाय
पञ्चमः पाठः अभ्यासवशगं मनः एकादशः पाठः किं किम् उपादेयम् केवलम् आन्तरिकमूल्याङ्कनाय
षष्ठः पाठः राष्ट्रं संरक्ष्यमेव हि -
📖 निर्धारित-पाठ्यपुस्तके (कक्षा 10):
1. 'मणिका' - द्वितीयो भागः, पाठ्यपुस्तकम् (प्रकाशनम्: केन्द्रीय माध्यमिक शिक्षा बोर्ड, भारतम्)
2. 'मणिका-अभ्यासपुस्तकम्' द्वितीयो भागः (प्रकाशनम्: केन्द्रीय माध्यमिक शिक्षा बोर्ड, भारतम्)
* अवधेयम्: परीक्षायै अनुप्रयुक्तव्याकरणस्य अंशानां चयनं यथासम्भवं 'मणिका-द्वितीयो भागः' पाठ्यपुस्तकात् करणीयम्। यदि ततः न सम्भवति तर्हि 'मणिका-अभ्यासपुस्तकम् द्वितीयो भागः' इत्यस्मात् चेतुं शक्यते।
📝 आन्तरिक-मूल्याङ्कनम् (कक्षा 10 - 20 अङ्काः)
क्र. सं. गतिविधयः उदाहरणानि अङ्काः मूल्याङ्कनबिन्दवः
1. आवधिक-परीक्षाः
(पीरियोडिक-असैस्मेण्ट)
लिखितपरीक्षा 05 • परीक्षासु यत्र विद्यार्थिनः श्रेष्ठाः अङ्काः स्युः तयोः द्वयोः परीक्षयोः एव अधिभारः ग्रहीतव्यः।
2. बहुविधमूल्याङ्कनम् • निर्गतपत्राणि, प्रश्नोत्तरी, मौखिकी परीक्षा, प्रतियोगिताः, प्रश्नमञ्चस्यायोजनम् 05 • मौलिकता, विषयसम्बद्धता, शुद्धता, समयबद्धता, प्रस्तुतीकरणम्।
3. निवेशसूचिका
(पोर्टफोलियो)
• कक्षाकार्यम्, सामूहिक-मूल्याङ्कनम्, स्वमूल्याङ्कनम्, उपलब्धयः 05 • सुलेखः, तथ्यात्मकता, प्रामाणिकता, समयबद्धता।
4. भाषा-संवर्धनाय गतिविधयः (क) श्रवण-भाषणकौशलम्: कथा, संवादः, भाषणम्, नाटकम्, आशुभाषणम्, श्लोकोच्चारणम्
(ख) लेखनकौशलम्: मौलिकलेखनम्, प्रतिवेदनलेखनम्, कथालेखनम्, श्रुतलेखः
05 • उच्चारणम्, शुद्धता, समयबद्धता, प्रस्तुतीकरणम्, विषय-सम्बद्धता।

Post a Comment

Previous Post Next Post