तृतीयः पाठः - आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः (Class 9 Sanskrit Sharda Ch 3) | सम्पूर्णा व्याख्या, शब्दार्थाः एवं अभ्यास-प्रश्नोत्तराणि


तृतीयः पाठः : आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः

कक्षा 9 - संस्कृत (शारदा) | सम्पूर्णा व्याख्या, हिन्दी-अनुवादः, शब्दार्थाः एवं अभ्यास-प्रश्नोत्तराणि

📌 पाठ-परिचयः: भारतदेशः बहूनां ब्रह्मर्षीणां महात्मनां च भूमिः। तेषां चरित्राणि सकलस्य विश्वस्य कृते प्रेरणास्पदम्। तेषां चरित्रेषु प्रतिपदं भूतदया, समता, क्षमा, अहिंसा, करुणा, ऋजुता, बन्धुता चेत्यादीनि जीवनमूल्यानि प्राप्यन्ते। महाराष्ट्रस्य प्रसिद्धः महात्मा नामदेवमहाराजः स्वीयव्यवहारेण करुणायाः महान्तम् आदर्शम् उपस्थापितवान्। सः सर्वात्मकस्य ईश्वरस्य न केवलं सङ्कीर्तनं कृतवान् अपि तु सर्वेषु जीवेषु सः भगवन्तं दृष्टवान्।
📌 दृश्यम् - 1 (प्रस्तावना एवं बाल्यावस्था-प्रसङ्गः)
कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ। तत्र क्रीडावेलायां कञ्चन शुनकं दृष्टवन्तौ। तं दृष्ट्वा पाषाणखण्डं हस्ते स्वीकृत्य तं मारयितुं धावितवन्तौ। शुनकः भयेन आक्रोशं कुर्वन् वेगेन धावितवान्। तत् दृष्ट्वा कपिलः माधवी च उच्चैः हसितवन्तौ। मातामही तं प्रसङ्गं दूरात् दृष्टवती, तौ आहूतवती च।
कपिल और माधवी छुट्टियों के समय में मामा के घर गए। वहाँ खेल के समय उन्होंने किसी एक कुत्ते को देखा। उसे देखकर हाथ में पत्थर का टुकड़ा लेकर उसे मारने के लिए दौड़े। कुत्ता डर से चीख-पुकार करता हुआ तेज़ी से भागा। यह देखकर कपिल और माधवी ज़ोर-ज़ोर से हँसे। नानी ने उस घटना को दूर से देखा और उन दोनों को बुलाया।
कठिन-शब्दःसंस्कृत-पर्यायः / व्युत्पत्तिःहिन्दी-अर्थः
अवकाशकालेविरामसमयेछुट्टियों के समय में
मातुलगृहम्मातुः भ्रातुः गृहम्मामा का घर
क्रीडावेलायाम्क्रीडासमयेखेल के समय में
शुनकम्कुक्कुरम्कुत्ते को
पाषाणखण्डम्शिलाखण्डम्पत्थर का टुकड़ा
आक्रोशम्भयेन चीत्कारम्चीखना / चिल्लाना
आहूतवतीआह्वानम् अकरोत्बुलाया
📌 दृश्यम् - 2 (मातामह्याः कपिल-माधवीभ्यां सह संवादः)
मातामही: भोः कपिल ! माधवि ! किं कुरुतः ?
कपिलः: मातामहि ! पश्यतु किल। सः शुनकः आवयोः क्रीडायां मध्ये मध्ये प्रविश्य आवां पीडयति स्म। अतः आवां तं सम्यक् दण्डितवन्तौ। (पुनः उच्चैः हसितवन्तौ)
मातामही: वत्सौ, अधुना क्रीडया अलम्। कथां श्रोतुम् इच्छतः वा?
उभावपि: कथा ! रोचते मे कथा ... रोचते मे मातामही। (मातामहीम् आलिङ्गितवन्तौ)
मातामही: उपविशताम्, सावधानेन शृणुतां च। अस्माकं भारतभूमिः अनेकेषां ब्रह्मर्षीणां राजर्षीणां नररत्नानां च प्रसवित्री। बहवः सत्पुरुषाः स्वीयकर्तृत्वेन जन्म सार्थकं कृतवन्तौ। किं भवन्तौ महात्मानं नामदेवं जानीतः ?
माधवी: आम्। अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति। अपि सत्यम् ?
मातामही: आम्। तस्यैव पुण्यश्लोकस्य पाण्डुरङ्गमित्रस्य नामदेवमहाराजस्य एषा कथा। नामदेवः न केवलं पाण्डुरङ्गस्य प्रियभक्तः अपि तु प्रियमित्रमपि। देवः नामदेवं परितः भवति स्म।
माधवी: किं सत्यमेव नामदेवस्य मित्रम् आसीत् पाण्डुरङ्गः ?
कपिलः: किं देवेन सह अपि मित्रता सम्भवति ?
मातामही: आम् वत्सौ। देवः पाण्डुरङ्गः नामदेवस्य प्रियसुहृदासीत्। नामदेवः प्रतिदिनं पाण्डुरङ्गाय नैवेद्यं समर्प्य, तं भोजयित्वा ततः परमेव अन्नं सेवते स्म। तस्य गुरुः आसीत् विसोबा। विसोबा तम् अध्यापितवान् यत् 'ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु' इति।
नानी: अरे कपिल! माधवी! क्या कर रहे हो?
कपिल: नानी जी! देखिए तो सही। वह कुत्ता खेल के बीच-बीच में आकर हम दोनों को परेशान कर रहा था। इसलिए हम दोनों ने उसे अच्छी तरह सजा दी है। (दोनों फिर ज़ोर से हँसे)
नानी: दोनों बच्चो! अब खेलना बंद करो। क्या कहानी सुनना चाहते हो?
दोनों: कहानी! मुझे कहानी पसंद है... नानी जी, मुझे कहानी अच्छी लगती है। (नानी को गले लगा लिया)
नानी: बैठ जाओ और ध्यान से सुनो। हमारी भारत भूमि अनेक ब्रह्मर्षियों, राजर्षियों और नर-रत्नों की जननी है। अनेक सत्पुरुषों ने अपने कर्मों से जन्म को सार्थक किया है। क्या आप दोनों महात्मा नामदेव को जानते हो?
माधवी: हाँ। मैंने सुना है कि उनके कीर्तन में स्वयं भगवान पाण्डुरङ्ग (विट्ठल) नृत्य करते थे। क्या यह सच है?
नानी: हाँ। उन्हीं पवित्र चरित्र वाले, पाण्डुरङ्ग के मित्र नामदेव महाराज की यह कहानी है। नामदेव न केवल पाण्डुरङ्ग के प्रिय भक्त थे, बल्कि प्रिय मित्र भी थे। भगवान नामदेव के आसपास ही रहते थे।
माधवी: क्या सच में पाण्डुरङ्ग नामदेव के मित्र थे?
कपिल: क्या ईश्वर के साथ भी मित्रता सम्भव है?
नानी: हाँ दोनों बच्चो! भगवान पाण्डुरङ्ग नामदेव के प्रिय मित्र थे। नामदेव प्रतिदिन पाण्डुरङ्ग को भोग लगाकर, उन्हें भोजन कराकर उसके बाद ही अन्न ग्रहण करते थे। उनके गुरु विसोबा थे। विसोबा ने उन्हें पढ़ाया था कि— 'ईश्वर केवल मंदिर में ही नहीं होता, बल्कि सभी प्राणियों में उसका निवास होता है। इसलिए उस सर्वव्यापी ईश्वर का पूजन करो'।
कठिन-शब्दःसंस्कृत-पर्यायः / व्युत्पत्तिःहिन्दी-अर्थः
आवयोःअस्मद् (षष्ठी द्वि.व.)हम दोनों का
अलम् क्रीडयाक्रीडां त्यजतखेलना बस करो
आलिङ्गितवन्तौआश्लिष्टौगले लगाया
प्रसवित्रीजनयित्रीजन्म देने वाली / माता
पुण्यश्लोकःपवित्रचरित्रवान्पवित्र चरित्र वाले
परितःसर्वस्मिन् पार्श्वेचारों ओर / पास
सुहृत्सखा / मित्रम्मित्र / दोस्त
नैवेद्यम्देवाय समर्पितम्भगवान का भोग
📌 दृश्यम् - 3 (मन्दिरे घटना एवं श्लोक-प्रार्थना)
कपिलः: मातामहि ! किं सत्यमेव ईश्वरः सर्वेषु भूतेषु निवसति ?
मातामही: आम्, शृणु वत्स ! नामदेवः प्रतिदिनम् अतीव श्रद्धया निष्ठया भक्त्या च नैवेद्यस्थालिकाम् आदाय मन्दिरं गच्छति स्म। एकदा सः नैवेद्यस्थालिकां गृहीत्वा विग्रहस्य पुरतः स्थापितवान्। नेत्रे निमील्य प्रार्थनां कृतवान् -
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्॥
मन्त्रम् उच्चार्य श्रद्धया प्रणम्य सः नेत्रे उद्घाटितवान्। अहो आश्चर्यम् ! पुरतः स्थितायां स्थालिकायां रोटिका नासीत्।
माधवी: पाण्डुरङ्गः आगत्य भक्षितवान् किल ?
मातामही: न हि। कश्चन बुभुक्षितः शुनकः आगत्य रोटिकां मुखे गृहीत्वा धावितवान्।
कपिलः: धिक् शुनकम् ! मातामहि ! पश्यतु, शुनकाः दुष्टाः एव भवन्ति।
माधवी: सत्यं भ्रातः ! नामदेवस्य कियत् दुःखं जातं स्यात् खलु।
मातामही: पुत्रकौ, शृणुताम्। नामदेवः शुनकस्य पृष्ठे अनुधावितवान्। जानीतः किमर्थं कथं च ?
हे देव! (एतत्) नैवेद्यं गृह्यताम्, मे भक्तिम् हि अचलां कुरु। मे ईप्सितं वरं देहि, परत्र च परां गतिम् (देहि)। शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च, भक्ष्यभोज्यम् आहारम् च (इदम्) नैवेद्यं प्रतिगृह्यताम्।
कपिल: नानी जी! क्या सच में ईश्वर सभी प्राणियों में निवास करता है?
नानी: हाँ, सुनो बच्चे! नामदेव प्रतिदिन अत्यधिक श्रद्धा, निष्ठा और भक्ति से भोग की थाली लेकर मंदिर जाते थे। एक बार वे भोग की थाली लेकर मूर्ति के सामने रख दिए। आँखें बंद करके प्रार्थना किए -
"हे प्रभु! यह भोग स्वीकार कीजिए, मेरी भक्ति को स्थिर कीजिए। मुझे मनोवांछित वर दीजिए और परलोक में परम गति प्रदान कीजिए। शक्कर के टुकड़े, मिठाइयाँ, दही, दूध, घी तथा खाने-चबाने योग्य सभी खाद्य पदार्थों के इस भोग को स्वीकार कीजिए।"
मन्त्र बोलकर श्रद्धा से प्रणाम करके उन्होंने आँखें खोलीं। अरे आश्चर्य! सामने रखी थाली में रोटी नहीं थी।
माधवी: क्या पाण्डुरङ्ग आकर खा गए?
नानी: नहीं। कोई एक भूखा कुत्ता आकर रोटी मुँह में दबाकर भाग गया।
कपिल: धिक्कार है उस कुत्ते को! नानी जी! देखिए, कुत्ते दुष्ट ही होते हैं।
माधवी: सच बात है भैया! नामदेव को कितना दुःख हुआ होगा।
नानी: दोनों बच्चो, सुनो। नामदेव कुत्ते के पीछे दौड़े। जानते हो किसलिए और कैसे?
कठिन-शब्दःसंस्कृत-पर्यायः / व्युत्पत्तिःहिन्दी-अर्थः
विग्रहस्यप्रतिमायाः / मूर्तेःमूर्ति के
निमील्यपिधाय / बद्ध्वाबंद करके
ईप्सितम्मनोवांछितम्चाहते हुए / मनचाहा
परत्रपरलोकेपरलोक में
बुभुक्षितःक्षुधार्तःभूखा
धिक्निन्दावाचकम्धिक्कार है
अनुधावितवान्पृष्ठतः अधावत्पीछे दौड़ा
📌 दृश्यम् - 4 (घृतपात्र-प्रसङ्गः, पाण्डुरङ्गस्य दर्शनं सङ्कल्पः च)
कपिलः: क्रोधेन लगुडम् आदाय शुनकं ताडयितुं धावितवान् स्यात् !
माधवी: दण्डयितुं पाषाणखण्डम् आदाय धावितवान् स्यात् ! सत्यं किल मातामहि ?
मातामही: न हि बालौ ! नामदेवः कोपेन न धावितवान्, प्रत्युत सः करुणया धावितवान्। न लगुडं, न पाषाणखण्डम्, अपि तु घृतपात्रं धृत्वा !
उभावपि: (साश्चर्यम् उच्चैः) किं घृतपात्रम् आधृत्य ?
मातामही: आम्, घृतपात्रम् आधृत्य एव।
उभौ: किन्तु किमर्थम् ?
मातामही: जातो, शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान् खलु। महात्मनः नामदेवस्य चिन्ता आसीत् यत् यदि शुनकः शुष्करोटिकां खादेत् तर्हि तस्य उदरवेदना भवेत् इति। अतः तस्य पीडा मा भवतु इति चिन्तयन् घृतपात्रम् आदाय 'हे देव ! शुष्कां रोटिकां मा खादतु, घृतम् अपि स्वीकरोतु' इति वदन् अनुधावितवान् सः। (उभौ परस्परं पश्यतः। अपराधभावनया तयोः मुखे म्लाने आस्ताम्।) धावन् शुनकः अदृश्यः जातः। तस्य स्थाने पाण्डुरङ्गः आविर्भूतः। स नामदेवम् उक्तवान् – 'वत्स नामदेव ! उत्तीर्णः भवान् परीक्षाम्। 'ईश्वरः सर्वेषु भूतेषु निवसति' इति गुरूपदेशं न केवलं भवान् श्रुतवान् अपि तु अनुपालितवान्। सुतरां धन्यो भवान्।
कपिलः: मातामहि ! अहं प्रमादं कृतवान्। अकारणं हि शुनकं ताडितवान्। इतः पूर्वमपि बहुवारं जीवान् पीडितवान्। अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति, अतः कमपि न पीडयिष्यामि इति।
माधवी: मातामहि ! क्षाम्यतु माम्। अहमपि कदापि कस्यापि पीडां न जनयिष्यामि।
मातामही: चिरञ्जीविनौ ! मां निकषा आगच्छताम्। (आलिङ्गनं कृत्वा) अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्। तथैव कस्यापि या कापि पीडा स्यात् तां निवारयितुं प्रयतामहे इति सङ्कल्पं कुर्मः। इदमस्तु अस्माकं ध्येयम् -
"आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः।"
यः सर्वभूतेषु आत्मवत् पश्यति, सः (एव) पण्डितः (भवति)।
कपिल: क्रोध में डंडा लेकर कुत्ते को पीटने के लिए दौड़े होंगे!
माधवी: सजा देने के लिए पत्थर का टुकड़ा लेकर दौड़े होंगे! क्यों नानी जी, सच है न?
नानी: नहीं बच्चो! नामदेव गुस्से से नहीं दौड़े, बल्कि वे दया भाव से दौड़े। न डंडा, न पत्थर का टुकड़ा, बल्कि घी का पात्र (कटोरा) लेकर!
दोनों: (आश्चर्य से ज़ोर से) क्या घी का कटोरा लेकर?
नानी: हाँ, घी का पात्र लेकर ही।
दोनों: लेकिन किसलिए?
नानी: बच्चो, कुत्ता सूखी रोटी चुराकर भाग गया था। महात्मा नामदेव को चिंता हुई कि यदि कुत्ता सूखी रोटी खाएगा तो उसके पेट में दर्द हो जाएगा। इसलिए उसे कष्ट न हो ऐसा सोचते हुए घी का कटोरा लेकर 'हे भगवान! सूखी रोटी मत खाइए, घी भी ले लीजिए' ऐसा कहते हुए वे पीछे दौड़े। (दोनों एक-दूसरे को देखने लगे। अपराध भाव से दोनों के चेहरे मुरझा गए।) भागता हुआ कुत्ता गायब हो गया। उसके स्थान पर साक्षात् पाण्डुरङ्ग प्रकट हो गए। वे नामदेव से बोले– 'वत्स नामदेव! आप परीक्षा में पास हो गए। ईश्वर सभी प्राणियों में रहता है, इस गुरु के उपदेश को न केवल आपने सुना बल्कि उसका पालन भी किया। आप अत्यंत धन्य हैं।'
कपिल: नानी जी! मैंने भूल की है। बिना कारण ही कुत्ते को मारा। इससे पहले भी बहुत बार जीवों को सताया है। आज मैंने जान लिया कि सभी जीवों में ईश्वर रहता है, इसलिए अब किसी को नहीं सताऊँगा।
माधवी: नानी जी! मुझे क्षमा कीजिए। मैं भी कभी किसी को दुःख नहीं पहुँचाऊँगी।
नानी: दीर्घायु होओ! मेरे पास आओ। (गले लगाकर) हमारे शरीर, वाणी या मन से किसी को दुःख न पहुँचे। वैसे ही किसी को भी जो दुःख हो उसे दूर करने का प्रयास करेंगे, ऐसा संकल्प करते हैं। हमारा यही ध्येय हो— "जो सभी प्राणियों को अपने समान समझता है, वही सच्चा ज्ञानी (पंडित) है।"
कठिन-शब्दःसंस्कृत-पर्यायः / व्युत्पत्तिःहिन्दी-अर्थः
लगुडम्दण्डम्डंडा / लाठी
अपहृत्यचोरयित्वाचुराकर
उदरवेदनाउदरे पीडापेट में दर्द
म्लाने आस्ताम्कान्तिहीने अभवताम्चेहरे मुरझा गए
आविर्भूतःप्रत्यक्षीभूतःप्रकट हुआ
प्रमादम्भूलम् / त्रुटिम्गलती / भूल
निकषासमीपेपास
आत्मवत्स्वस्य इवअपने समान
📖 पाठस्य सम्पूर्ण कठिन-शब्दार्थाः (NCERT Vocabulary)
कठिन-शब्दःसंस्कृत-अर्थःहिन्दी-अर्थःEnglish Meaning
अनुधावितवान्पृष्ठतः अधावत्पीछे दौड़ाChased
अनुपालितवान्अनुसरणम् अकरोत्पालन कियाFollowed
अपहृत्यचोरयित्वाचुराकरHaving stolen
आविर्भूतःप्रत्यक्षीभूतःप्रकट हुआAppeared
ऋजुतासरलतासीधापनSimplicity
करुणयादययादया सेWith mercy
कायःदेहः / शरीरम्शरीरBody
घृतम्हविः / आज्यम्घीClarified butter
नैवेद्यम्देवाय समर्पितम्भगवान का भोगOffering to God
निकषासमीपेपासNear
निमील्यपिधायबंद करकेHaving closed
पाषाणखण्डम्शिलाखण्डम्पत्थर का टुकड़ाPiece of Stone
प्रसवित्रीजनयित्रीजन्म देने वालीMother
बुभुक्षितःक्षुधार्तःभूखाHungry
मातुलःमातुः भ्रातामामाMaternal uncle
लगुडम्दण्डम्लाठी / डंडाStick
सुहृत्सखा / मित्रम्मित्रFriend
📝 अभ्यास-प्रश्नोत्तराणि (NCERT Solutions)
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत:

(क) मातामही कस्य कथां श्रावितवती ?

उत्तरम्: मातामही महात्मा-नामदेवमहाराजस्य कथां श्रावितवती।

(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान् ?

उत्तरम्: नामदेवस्य गुरुः विसोबा तम् अध्यापितवान् यत् 'ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति' इति।

(ग) नामदेवः कया भावनया धावनं कृतवान् ?

उत्तरम्: नामदेवः करुणाभावनया (घृतपात्रम् आदाय) धावनं कृतवान्।

(घ) बालकयोः मुखे किमर्थं म्लाने संजाते ?

उत्तरम्: अपराधभावनया (स्वकीयप्रमादस्य पश्चात्तापेन) बालकयोः मुखे म्लाने संजाते।

(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ ?

उत्तरम्: 'अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्, सर्वेषु जीवेषु ईश्वरः निवसति अतः कमपि न पीडयिष्यावः' इति सङ्कल्पं कृतवन्तौ।

(च) 'तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ' अत्र 'तम्' इति पदं कस्य कृते प्रयुक्तम् ?

उत्तरम्: शुनकस्य (कुक्कुरस्य) कृते।

(छ) कपिलः माधवी च कुत्र गतवन्तौ ?

उत्तरम्: मातुलगृहं गतवन्तौ।
2. अधोलिखितानि वाक्यानि भूतकालेन (क्तवतु-प्रत्ययेन) परिवर्त्य लिखत:

(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति। ➔ नैवेद्यं विग्रहस्य पुरतः स्थापितवान्।

(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति। ➔ नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।

(ग) गुरुः विसोबा तम् अध्यापयति। ➔ गुरुः विसोबा तम् अध्यापितवान्।

(घ) अहं शृणोमि। ➔ अहं श्रुतवान् / श्रुतवती।

(ङ) नामदेवः शुनकस्य पृष्ठे अनुधावति। ➔ नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।

3. अधोलिखितानि कथनानि कः/का कम्/कां प्रति कथयति इति लिखत:
  • (क) "कथां श्रोतुम् इच्छतः वा?" ➔ मातामही ➔ कपिलं माधवीं च प्रति
  • (ख) "किं देवेन सह अपि मित्रता सम्भवति?" ➔ कपिलः ➔ मातामहीं प्रति
  • (ग) "नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।" ➔ नामदेवः ➔ पाण्डुरङ्गं (देवं) प्रति
  • (घ) "धिक् शुनकम्।" ➔ कपिलः ➔ मातामहीं प्रति
  • (ङ) "उत्तीर्णः भवान् परीक्षाम्।" ➔ पाण्डुरङ्गः (देवः) ➔ नामदेवं प्रति
  • (च) "अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति।" ➔ कपिलः ➔ मातामहीं प्रति
4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत:

(क) देवः नामदेवं परितः भवति स्म। ➔ प्रश्नः: देवः कम् परितः भवति स्म ?

(ख) ईश्वरः सर्वेषु भूतेषु निवसति। ➔ प्रश्नः: ईश्वरः केषु निवसति ?

(ग) शुनकः आगत्य रोटिकां धृत्वा धावितवान्। ➔ प्रश्नः: शुनकः आगत्य काम् धृत्वा धावितवान् ?

(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्। ➔ प्रश्नः: शुनकस्य स्थाने कः आविर्भूतवान् ?

(ङ) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः। ➔ प्रश्नः: आत्मवत् सर्वभूतेषु यः पश्यति सः कः ?

5. घटनाक्रमानुसारं वाक्यानि पुनः लिखत:
  1. 1. नामदेवः मन्दिरं गतवान्।
  2. 2. नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
  3. 3. नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
  4. 4. शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
  5. 5. नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
  6. 6. शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
6. समासं विग्रहं वा कुरुत:

• महान् आत्मा ➔ महात्मा

• घृतस्य पात्रम् ➔ घृतपात्रम्

• पाषाणस्य खण्डः ➔ पाषाणखण्डः

• प्रियः सुहृद् ➔ प्रियसुहृत्

• उदरे वेदना ➔ उदरवेदना

Post a Comment

Previous Post Next Post