द्वितीयः पाठः - नास्ति त्यागसमं सुखम् (Class 10 Sanskrit Manika Ch 2) | अभ्यास प्रश्न-पत्रम् (Worksheet) उत्तर-कुंजी सहित


 

द्वितीयः पाठः : नास्ति त्यागसमं सुखम्

कक्षा 10 - संस्कृत (मणिका भाग-2) | गद्यांश-धारितम् अभ्यास-प्रश्न-पत्रम् (Worksheet)

📝 निर्देशः: अधोलिखितान् गद्यांशान् पठित्वा तदाधारितान् प्रश्नान् अपनी उत्तर-पुस्तिका में हल करें। प्रश्नों के उत्तर जाँचने के लिए पृष्ठ के अंत में दिए गए 'उत्तर-कुंजी (Answer Key)' बटन पर क्लिक करें।
📌 गद्यांशः - 1
"अथ एकदा भगवान् बोधिसत्त्वः बहुजन्मार्जितपुण्यफलैः शिवीनां राजा अभवत्। स बाल्यात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः च आसीत्। जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म। कारुण्य-औदार्यादिसद्गुणोपेतः स नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशालाः अकारयत्। तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तूनी प्राप्य सन्तुष्टः अभवत्। राज्ञः दानशीलताम् आकर्ण्य देशान्तरेभ्योऽपि जनाः तं देशम् आयान्ति स्म।"
(क) एकपदेन उत्तरत:
  1. भगवान् बोधिसत्त्वः केषां राजा अभवत्?
  2. असौ पुत्रवत् काः पालयति स्म?
  3. राजा नगरस्य समन्ततः काः अकारयत्?
  4. अर्थिनां समूहः कानि प्राप्य सन्तुष्टः अभवत्?
(ख) पूर्णवाक्येन उत्तरत:
  1. बोधिसत्त्वः बाल्यात् एव कीदृशः आसीत्?
  2. राज्ञः दानशीलताम् आकर्ण्य जनाः कुतः आयान्ति स्म?
(ग) भाषिक-कार्यम्:
  1. 'जनकल्याणकर्मसु रतः असौ पुत्रवत् प्रजाः पालयति स्म।' अत्र क्रियापदं किम्?
  2. 'स बाल्यात् एव वृद्धोपसेवी आसीत्।' अस्मिन् वाक्ये कर्तृपदं किम्?
  3. 'सन्तुष्टः' इति पदस्य विशेष्यपदं गद्यांशात् चित्वा लिखत।
  4. 'परितः' इत्यस्य कः पर्यायः गद्यांशे प्रयुक्तः?
  5. 'कृपणताम्' इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
📌 गद्यांशः - 2
"अथ कदाचित् दानशालासु विचरन् स राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत् 'मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। नूनं ते दानवीराः सौभाग्यशालिनः यान् याचकाः शरीरस्य अङ्गानि अपि याचन्ते।' एवं राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।"
(क) एकपदेन उत्तरत:
  1. राजा कुत्र विचरन् अचिन्तयत्?
  2. याचकाः केषां शरीरस्य अङ्गानि याचन्ते?
  3. राज्ञः गात्रेणु निरासक्तिं विज्ञाय किं व्याकुलं सञ्जातम्?
(ख) पूर्णवाक्येन उत्तरत:
  1. राजा अर्थिनां विरलसंख्यां विलोक्य किम् अचिन्तयत्?
  2. के सौभाग्यशालिनः सन्ति?
(ग) भाषिक-कार्यम्:
  1. 'सकलं ब्रह्माण्डं व्याकुलं सञ्जातम्।' अत्र विशेषणपदं किम्?
  2. 'दृष्ट्वा' इत्यर्थे गद्यांशे किं क्त्वा-प्रत्ययान्तं पदं प्रयुक्तम्?
  3. 'अङ्गानि' इत्यस्य कः पर्यायः अत्र प्रयुक्तः?
  4. 'बहुसंख्याम्' इत्यस्य विलोमपदं गद्यांशात् लिखत।
📌 गद्यांशः - 3
"राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत्- हे राजन् ! भवतः दानवीरताम् आकर्ण्य आशान्वितः भवत्समीपम् आगतोऽस्मि। देव ! रवि-शशि-तारा-मण्डलभूषितं जगत् एतत् कथमिव पश्येयं चक्षुर्हीनः।"
(क) एकपदेन उत्तरत:
  1. देवाधिपतिः शक्रः कस्य रूपं धारयित्वा अवदत्?
  2. शक्रः कस्य दानशीलतां परीक्षितुम् आगच्छत्?
  3. जगत् कैः भूषितम् अस्ति?
(ख) पूर्णवाक्येन उत्तरत:
  1. नेत्रहीनयाचकः राजानं किम् अवदत्?
(ग) भाषिक-कार्यम्:
  1. 'आशान्वितः भवत्समीपम् आगतोऽस्मि।' अत्र कर्तृपदं किम्?
  2. 'इन्द्रः' इत्यर्थे किं संज्ञापदं प्रयुक्तम्?
  3. 'नेत्रहीनः' इत्यस्य कः पर्यायः अत्र समागतः?
📌 गद्यांशः - 4
"लोके चक्षुर्दानं दुष्करमेव। नूनम् ईदृशं दानम् इच्छन् अयं याचकः केनापि प्रेरितः स्यात् ! अथवा भवतु नाम किं बहु चिन्तनेन? इति विचार्य राजा अभाषत 'भो मित्र ! किमेकेन चक्षुषा, अहं भवते चक्षुर्द्वयमेव प्रयच्छामि इति।' राज्ञः नेत्रदानार्थं निश्चयं ज्ञात्वा अमात्याः विषण्णाः भूत्वा अवदन्- महाराज ! अलम् एतावता दुस्साहसेन, प्रभूतं धनमेव दीयताम्।"
(क) एकपदेन उत्तरत:
  1. लोके किम् दुष्करम् अस्ति?
  2. राज्ञः निश्चयं ज्ञात्वा के विषण्णाः अभवन्?
  3. अमात्याः राजानं किं दातुं निवेदयन्ति स्म?
(ख) पूर्णवाक्येन उत्तरत:
  1. अमात्याः विषण्णाः भूत्वा महाराजं किम् अवदन्?
  2. राजा याचकं किं दातुं प्रतिज्ञातवान्?
(ग) भाषिक-कार्यम्:
  1. 'अहं भवते चक्षुर्द्वयमेव प्रयच्छामि।' अत्र क्रियापदं किम्?
  2. 'मंत्रिणः' इत्यर्थे गद्यांशे किं पदं प्रयुक्तम्?
  3. 'सुकरम्' इत्यस्य विलोमपदं लिखत।
  4. 'प्रभूतं धनम्' अनयोः पदयोः विशेषणपदं किम्?
📌 गद्यांशः - 5
"नाहं स्वर्गं न मोक्षं वा कामये किन्तु आर्त्तानां परित्राणाय एव मे निश्चयः। अस्य याच्ञा वृथा मा अस्तु इत्युक्त्वा स राजा वैद्योक्तविधिना नीलोत्पलम् इव एकं चक्षुः शनैः अक्षतम् उत्पाट्य प्रीत्या याचकाय समर्पितवान्। सः अपि तत् नेत्रं यथास्थानम् अस्थापयत्। ततो महीपालः द्वितीयं नेत्रमपि शनैः निष्कास्य तस्मै अयच्छत्।"
(क) एकपदेन उत्तरत:
1. राजा कस्य परित्राणाय निश्चयम् अकरोत्?
2. राजा नीलोत्पलम् इव किं शनैः उत्पाटितवान्?
3. महीपालः द्वितीयं नेत्रं कस्मै अयच्छत्?
(ख) पूर्णवाक्येन उत्तरत:
1. राजा चक्षुर्दानं कुर्वन् किम् अकथयत्?
2. राजा वैद्योक्तविधिना चक्षुः कथं समर्पितवान्?
(ग) भाषिक-कार्यम्:
1. 'सः अपि तत् नेत्रं यथास्थानम् अस्थापयत्।' अत्र 'सः' सर्वनामपदं कस्मै प्रयुक्तम्?
2. 'राजा' इत्यस्य कः पर्यायः अत्र प्रयुक्तः?
3. 'दुःखितानाम्' इत्यर्थे किं पदं गद्यांशे अस्ति?
4. 'शीघ्रम्' इत्यस्य विलोमपदं गद्यांशात् लिखत।
📌 गद्यांशः - 6
"अथ विस्मितः शक्रः अचिन्तयत्- अहो धृतिः ! अहो सत्त्वम् ! अहो सत्त्वहितैषिता ! नायं चिरं परिक्लेशम् अनुभवितुम् अर्हति। अतः प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणाय इति। कतिपयैः दिनैः व्रणविरोपणे जाते एकदा राजा सरोवरस्य समीपे विहरति स्म। तदा तस्य पुरतः पुनः देवराजः शक्रः उपस्थितः भूत्वा तस्य त्यागवृत्तिं प्रशंसन् अवदत्-"
(क) एकपदेन उत्तरत:
1. कः विस्मितः अभवत्?
2. व्रणविरोपणे जाते राजा कस्य समीपे विहरति स्म?
3. शक्रः कस्य त्यागवृत्तिं प्रशंसन् अवदत्?
(ख) पूर्णवाक्येन उत्तरत:
1. विस्मितः शक्रः राजानं दृष्ट्वा किम् अचिन्तयत्?
(ग) भाषिक-कार्यम्:
1. 'प्रयतिष्ये चक्षुषोऽस्य पुनः प्रत्यारोपणाय।' अत्र क्रियापदस्य लकारः कः?
2. 'चकितः' इत्यस्य कः पर्यायः अत्र प्रयुक्तः?
3. 'धैर्यम्' इत्यर्थे किं संज्ञापदं समागतम्?
📌 गद्यांशः - 7
"एवम् उक्तेन राज्ञा नेत्रार्थं प्रार्थिते सति शक्रस्य प्रभावेण आत्मनः सत्यपुण्यबलेन च तस्य प्रथमम् एकं चक्षुः प्रतिष्ठितम् अभवत् ततः द्वितीयमपि। भूयः प्रीतः शक्रः वरम् अयच्छत्- शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भव इति। इति उक्त्वा शक्रः तत्रैव अन्तर्हितः अभवत्।"
(क) एकपदेन उत्तरत:
1. कस्य प्रभावेण राज्ञः चक्षुः प्रतिष्ठितम् अभवत्?
2. शक्रः राज्ञे किम् अयच्छत्?
3. इति उक्त्वा शक्रः कुत्र अभवत्?
(ख) पूर्णवाक्येन उत्तरत:
1. शक्रः राजानं कीदृशं वरम् अयच्छत्?
(ग) भाषिक-कार्यम्:
1. 'पर्वतानाम्' इत्यस्य कः पर्यायः अत्र प्रयुक्तः?
2. 'प्रसन्नः' इत्यर्थे गद्यांशे किं पदं आयातम्?
3. 'अन्तर्हितः अभवत्' इत्यस्य अर्थः कः?
📌 गद्यांशः - 8 (श्लोकः)
"धनस्य निःसारलघोः स सारो यद् दीयते लोकहितोन्मुखेन।
निधानतां याति हि दीयमानम् अदीयमानं निधनैकनिष्ठम्॥"
(क) एकपदेन उत्तरत:
1. निःसारलघोः धनस्य कः सारः अस्ति?
2. दीयमानं धनं कां याति?
3. अदीयमानं धनं कीदृशं भवति?
(ख) पूर्णवाक्येन उत्तरत:
1. श्लोकानुसारं धनस्य सार्थकता कथं भवति?
(ग) भाषिक-कार्यम्:
1. 'निधनम्' इत्यस्य अर्थः कः?
2. 'दीयमानम्' इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत।
🔑 उत्तर-कुंजी (Answer Key)
✔ गद्यांशः - 1 उत्तरम्:
(क) 1. शिविनाम्, 2. प्रजाः, 3. दानशालाः, 4. अभीष्टानि वस्तूनि
(ख) 1. बोधिसत्त्वः बाल्यात् एव वृद्धोपसेवी, विनयशीलः, शास्त्रपारङ्गतः च आसीत्।
2. राज्ञः दानशीलताम् आकर्ण्य जनाः देशान्तरेभ्यः आयान्ति स्म।
(ग) 1. पालयति स्म, 2. सः (असौ), 3. समूहः, 4. समन्ततः, 5. दानशीलताम्
✔ गद्यांशः - 2 उत्तरम्:
(क) 1. दानशालासु, 2. दानवीराणाम्, 3. सकलं ब्रह्माण्डम्
(ख) 1. राजा अचिन्तयत् यत् मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते।
2. ते दानवीराः सौभाग्यशालिनः सन्ति यान् याचकाः शरीरस्य अङ्गानि याचन्ते।
(ग) 1. सकलम्, 2. विलोक्य / विज्ञाय, 3. गात्रेषु, 4. विरलसंख्याम्
✔ गद्यांशः - 3 उत्तरम्:
(क) 1. नेत्रहीनयाचकस्य, 2. राज्ञः (बोधिसत्त्वस्य), 3. रवि-शशि-तारा-मण्डलैः
(ख) 1. याचकः अवदत्- "हे राजन्! भवतः दानवीरताम् आकर्ण्य आशान्वितः त्वत्सममीपम् आगतोऽस्मि।"
(ग) 1. अहम् (आगतोऽस्मि), 2. शक्रः / देवाधिपतिः, 3. चक्षुर्हीनः
✔ गद्यांशः - 4 उत्तरम्:
(क) 1. चक्षुर्दानम्, 2. अमात्याः, 3. प्रभूतं धनम्
(ख) 1. अमात्याः अवदन्- "महाराज! अलम् एतावता दुस्साहसेन, प्रभूतं धनमेव दीयताम्।"
2. राजा याचकाय चक्षुर्द्वयम् एव दातुं प्रतिज्ञातवान्।
(ग) 1. प्रयच्छामि, 2. अमात्याः, 3. दुष्करम्, 4. प्रभूतम्
✔ गद्यांशः - 5 उत्तरम्:
(क) 1. आर्त्तानाम्, 2. एकं चक्षुः, 3. याचकाय (इन्द्राय)
(ख) 1. राजा अवदत्- "नाहं स्वर्गं न मोक्षं वा कामये किन्तु आर्त्तानां परित्राणाय एव मे निश्चयः।"
2. राजा नीलोत्पलम् इव चक्षुः अक्षतम् उत्पाट्य प्रीत्या समर्पितवान्।
(ग) 1. याचकाय (शक्राय), 2. महीपालः, 3. आर्त्तानाम्, 4. शनैः
✔ गद्यांशः - 6 उत्तरम्:
(क) 1. शक्रः (इन्द्रः), 2. सरोवरस्य, 3. राज्ञः (बोधिसत्त्वस्य)
(ख) 1. शक्रः अचिन्तयत्- "अहो धृतिः! अहो सत्त्वम्! न अयम् चिरं परिक्लेशम् अनुभवितुम् अर्हति।"
(ग) 1. लृट् लकारः (भविष्यत्कालः), 2. विस्मितः, 3. धृतिः
✔ गद्यांशः - 7 उत्तरम्:
(क) 1. शक्रस्य प्रभावेण सत्यपुण्यबलेन च, 2. वरम्, 3. अन्तर्हितः
(ख) 1. शक्रः वरम् अयच्छत्- "शतयोजनपर्यन्तं शैलानां पारं च द्रष्टुं समर्थः भव।"
(ग) 1. शैलानाम्, 2. प्रीतः, 3. अदृश्यः अभवत्
✔ गद्यांशः - 8 उत्तरम्:
(क) 1. यद् दीयते (दानम्), 2. निधानताम्, 3. निधनैकनिष्ठम्
(ख) 1. धनस्य सार्थकता लोकहिताय दानेन एव भवति।
(ग) 1. विनाशः / मरणम्, 2. अदीयमानम्

Post a Comment

Previous Post Next Post