प्रथमः पाठः : वाङ्मयं तपः
कक्षा 10 - संस्कृत (मणिका भाग-2) | श्लोक-धारितम् अभ्यास-प्रश्न-पत्रम् (Worksheet)
📌 श्लोकः - 1
शारदा शारदाम्भोजवदना वदनाम्बुजे।
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्॥
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्॥
(क) एकपदेन उत्तरत:
- का अस्माकं सन्निधिं कुर्यात्?
- शारदा कीदृशी अस्ति?
- शारदा कुत्र सन्निधिं क्रियात्?
(ख) पूर्णवाक्येन उत्तरत:
- शारदाम्भोजवदना शारदा कुत्र सर्वदा सत्निधिं क्रियात्?
(ग) भाषिक-कार्यम्:
- 'सर्वदाऽस्माकं सन्निधिं क्रियात्।' अत्र क्रियापदं किम्?
- 'कमलमुखे' इत्यर्थे श्लोके किं समस्तपदम् प्रयुक्तम्?
- 'नित्यम्' इति पदस्य कः पर्यायः अत्र समागतः?
✔ श्लोकः - 1 उत्तरम्:
(क) 1. शारदा, 2. शारदाम्भोजवदना, 3. अस्माकं वदनाम्बुजे
(ख) 1. शारदाम्भोजवदना शारदा अस्माकं वदनाम्बुजे सर्वदा सत्निधिं क्रियात्।
(ग) 1. क्रियात्, 2. वदनाम्बुजे, 3. सर्वदा
(ख) 1. शारदाम्भोजवदना शारदा अस्माकं वदनाम्बुजे सर्वदा सत्निधिं क्रियात्।
(ग) 1. क्रियात्, 2. वदनाम्बुजे, 3. सर्वदा
📌 श्लोकः - 2
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति!
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥
(क) एकपदेन उत्तरत:
- भारत्याः कोशः कीदृशः विद्यते?
- कोशः कस्मात् वृद्धिम् आयाति?
- कोशः कस्मात् क्षयम् आयाति?
(ख) पूर्णवाक्येन उत्तरत:
- भारत्याः कोशस्य का विशेषा स्थितिः अस्ति?
(ग) भाषिक-कार्यम्:
- 'अपूर्वः कोशोऽयं विद्यते तव भारति।' अत्र विशेष्यपदं किम्?
- 'नश्यति' इत्यर्थे श्लोके किं पदम् प्रयुक्तम्?
- 'सञ्चयात्' इति पदस्य विलोमपदं श्लोकात् चित्वा लिखत।
✔ श्लोकः - 2 उत्तरम्:
(क) 1. अपूर्वः, 2. व्ययतः, 3. सञ्चयात्
(ख) 1. भारत्याः कोशः व्ययतः वृद्धिम् आयाति सञ्चयात् च क्षयम् आयाति।
(ग) 1. कोशः, 2. क्षयम् आयाति, 3. व्ययतः
(ख) 1. भारत्याः कोशः व्ययतः वृद्धिम् आयाति सञ्चयात् च क्षयम् आयाति।
(ग) 1. कोशः, 2. क्षयम् आयाति, 3. व्ययतः
📌 श्लोकः - 3
नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥
(क) एकपदेन उत्तरत:
- किं समं चक्षुः न अस्ति?
- किं समं तपः न अस्ति?
- किं समं सुखं न अस्ति?
(ख) पूर्णवाक्येन उत्तरत:
- लोके किम् समं दुःखं किम् च समं सुखं न अस्ति?
(ग) भाषिक-कार्यम्:
- 'नास्ति रागसमं दुःखम्।' अत्र 'नास्ति' पदस्य सन्धिविच्छेदः कः?
- 'नेत्रम्' इत्यस्य कः पर्यायः अत्र प्रयुक्तः?
- 'मोहः' इत्यस्य स्थाने श्लोके किं पदम् समागतम्?
✔ श्लोकः - 3 उत्तरम्:
(क) 1. विद्यासमम्, 2. सत्यसमम्, 3. त्यागसमम्
(ख) 1. रागसमम् दुःखम् तथा त्यागसमम् सुखम् न अस्ति।
(ग) 1. न + अस्ति, 2. चक्षुः, 3. रागः
(ख) 1. रागसमम् दुःखम् तथा त्यागसमम् सुखम् न अस्ति।
(ग) 1. न + अस्ति, 2. चक्षुः, 3. रागः
📌 श्लोकः - 4
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी॥
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी॥
(क) एकपदेन उत्तरत:
- का पुरुषं प्रह्लादयति?
- कीदृशं सलिलं पुरुषं तथा न प्रह्लादयति?
- कीदृशी छाया पुरुषं तथा न प्रह्लादयति?
(ख) पूर्णवाक्येन उत्तरत:
- मधुरभाषिणी वाणी पुरुषं कथं प्रह्लादयति?
(ग) भाषिक-कार्यम्:
- 'प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी।' अत्र कर्तृपदं किम्?
- 'प्रसन्नं करोति' इत्यर्थे श्लोके किं क्रियापदम् प्रयुक्तम्?
- 'जलम्' इत्यस्य कः पर्यायः अत्र समागतः?
✔ श्लोकः - 4 उत्तरम्:
(क) 1. मधुरभाषिणी वाणी, 2. शीतलसलिलम्, 3. शीतला छाया
(ख) 1. मधुरभाषिणी वाणी पुरुषं यथा प्रह्लादयति तथा शीतलसलिलं, चन्दनरसः, शीतला छाया च न प्रह्लादयति।
(ग) 1. वाणी, 2. प्रह्लादयति, 3. सलिलम्
(ख) 1. मधुरभाषिणी वाणी पुरुषं यथा प्रह्लादयति तथा शीतलसलिलं, चन्दनरसः, शीतला छाया च न प्रह्लादयति।
(ग) 1. वाणी, 2. प्रह्लादयति, 3. सलिलम्
📌 श्लोकः - 5
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥
(क) एकपदेन उत्तरत:
- श्लोकानुसारं श्लोके केषां गुणाः वर्णिताः?
- 'श्रोतुम् इच्छा' इति किम् उच्यते?
- कति धीगुणाः श्लोके सूचिताः सन्ति?
(ख) पूर्णवाक्येन उत्तरत:
- बुद्धेः (धियः) के के गुणाः सन्ति?
(ग) भाषिक-कार्यम्:
- 'बुद्धेः गुणाः' इत्यर्थे श्लोके किं समस्तपदम् प्रयुक्तम्?
- 'शङ्कानिवारणम्' इत्यर्थे किं पदम् अत्र समागतम्?
- 'ऊहः' इति पदस्य कः अर्थः अस्ति?
✔ श्लोकः - 5 उत्तरम्:
(क) 1. धियः (बुद्धेः), 2. शुश्रूषा, 3. अष्ट (8)
(ख) 1. शुश्रूषा, श्रवणम्, ग्रहणम्, धारणम्, ऊहः, अपोहः, अर्थविज्ञानम्, तत्त्वज्ञानम् च धियः गुणाः सन्ति।
(ग) 1. धीगुणाः, 2. अपोहः, 3. पक्षे तर्कः / विचारः
(ख) 1. शुश्रूषा, श्रवणम्, ग्रहणम्, धारणम्, ऊहः, अपोहः, अर्थविज्ञानम्, तत्त्वज्ञानम् च धियः गुणाः सन्ति।
(ग) 1. धीगुणाः, 2. अपोहः, 3. पक्षे तर्कः / विचारः
📌 श्लोकः - 6
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः॥
धैर्यं लयसमर्थं च षडेते पाठका गुणाः॥
(क) एकपदेन उत्तरत:
- पाठकानां कति गुणाः सन्ति?
- वर्णानां स्पष्टता किम् उच्यते?
- पदानां पृथक्त्वेन उच्चारणं किम् उच्यते?
(ख) पूर्णवाक्येन उत्तरत:
- एते षट् पाठकाः गुणाः के के सन्ति?
(ग) भाषिक-कार्यम्:
- 'षडेते पाठका गुणाः।' अत्र विशेषणपदं किम्?
- 'मधुरता' इत्यस्य स्थाने किं पदम् प्रयुक्तम्?
- 'सुस्वरः' अस्य पदस्य विग्रहः कः?
✔ श्लोकः - 6 उत्तरम्:
(क) 1. षट् (6), 2. अक्षरव्यक्तिः, 3. पदच्छेदः
(ख) 1. माधुर्यम्, अक्षरव्यक्तिः, पदच्छेदः, सुस्वरः, धैर्यम्, लयसमर्थम् च एते षट् पाठकाः गुणाः सन्ति।
(ग) 1. षट् / एते, 2. माधुर्यम्, 3. शोभनः स्वरः
(ख) 1. माधुर्यम्, अक्षरव्यक्तिः, पदच्छेदः, सुस्वरः, धैर्यम्, लयसमर्थम् च एते षट् पाठकाः गुणाः सन्ति।
(ग) 1. षट् / एते, 2. माधुर्यम्, 3. शोभनः स्वरः
📌 श्लोकः - 7
आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः॥
कालेन पादमादत्ते पादं सब्रह्मचारिभिः॥
(क) एकपदेन उत्तरत:
- शिष्यः आचार्यात् किम् आदत्ते?
- शिष्यः स्वमेधया किम् आदत्ते?
- शिष्यः सहपाठिभिः सह किं शिक्षते?
(ख) पूर्णवाक्येन उत्तरत:
- शिष्यः विद्यायाः चतुर्थांशं (पादम्) कैः कैः माध्यमैः प्राप्नोति?
(ग) भाषिक-कार्यम्:
- 'गृह्णाति' इत्यर्थे श्लोके किं क्रियापदम् प्रयुक्तम्?
- 'स्वबुद्ध्या' इत्यस्य कः पर्यायः अत्र समागतः?
- 'सहपाठिभिः' इत्यस्य कृते किं पदम् प्रयुक्तम्?
✔ श्लोकः - 7 उत्तरम्:
(क) 1. पादम् (चतुर्थांशम्), 2. पादम्, 3. पादम् (चतुर्थांशम्)
(ख) 1. शिष्यः पादम् आचार्यात्, पादम् स्वमेधया, पादम् कालेन तथा पादम् सब्रह्मचारिभिः प्राप्नोति।
(ग) 1. आदत्ते, 2. स्वमेधया, 3. सब्रह्मचारिभिः
(ख) 1. शिष्यः पादम् आचार्यात्, पादम् स्वमेधया, पादम् कालेन तथा पादम् सब्रह्मचारिभिः प्राप्नोति।
(ग) 1. आदत्ते, 2. स्वमेधया, 3. सब्रह्मचारिभिः
📌 श्लोकः - 8
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥
(क) एकपदेन उत्तरत:
- किं वाक्यं वाङ्मयं तपः उच्यते?
- स्वाध्यायाभ्यसनं किं तपः उच्यते?
- प्रियं हितं च वाक्यं कीदृशं भवति?
(ख) पूर्णवाक्येन उत्तरत:
- वाङ्मयं तपः किम् उच्यते?
(ग) भाषिक-कार्यम्:
- 'वाङ्मयं तप उच्यते।' अत्र विशेष्यपदं किम्?
- 'कथ्यते' इत्यस्य कः पर्यायः श्लोके अस्ति?
- 'उद्वेगकरम्' इति पदस्य विलोमपदं लिखत।
✔ श्लोकः - 8 उत्तरम्:
(क) 1. अनुद्वेगकरं सत्यं प्रियहितं च, 2. वाङ्मयम्, 3. अनुद्वेगकरम्
(ख) 1. अनुद्वेगकरम्, सत्यम्, प्रियहितम् च वाक्यम् तथा स्वाध्यायाभ्यसनम् एव वाङ्मयं तपः उच्यते।
(ग) 1. तपः, 2. उच्यते, 3. अनुद्वेगकरम्
(ख) 1. अनुद्वेगकरम्, सत्यम्, प्रियहितम् च वाक्यम् तथा स्वाध्यायाभ्यसनम् एव वाङ्मयं तपः उच्यते।
(ग) 1. तपः, 2. उच्यते, 3. अनुद्वेगकरम्