सप्तमः पाठः: उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्
अथ अन्यस्मिन् अहनि धर्मबुद्धिम् उपेत्य आह— पापबुद्धिः: भो मित्र! यदा भवान् वृद्धः भवति तदा 'बाल्ये यौवने वा मया एवं कृतम्' इति वक्तुं योग्यं किं कार्यं स्मरति? भवता अन्यः देशः न दृष्टः एव चेत् भवतः शिशून् अन्यदेशसम्बन्धे कां कथां वक्ष्यति? उक्तमेव— देशान्तरेषु बहुविधभाषावेषादि येन न ज्ञातम्। भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम्॥
एवमेव— विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक्। यावद् व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥ अतः आवां देशान्तरं गत्वा धनम् अर्जयित्वा आगच्छाव इति।
अथ तस्य तद्वचनम् आकर्ण्य प्रहृष्टमनाः धर्मबुद्धिः आह— अस्तु तावत् गुरुजनाज्ञया गच्छावः। (ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ। पापबुद्धिः धर्मबुद्धिप्रभावेण प्रभूतं धनं सम्पादितवान्)।
| शब्द | अर्थ |
|---|---|
| प्रतिवसतः स्म | रहते थे |
| वञ्चयित्वा | ठगकर |
| प्रभूतं धनम् | बहुत सारा धन |
| सम्पादितवान् | कमाया |
| प्रहृष्टमनाः | प्रसन्न मन वाला |
धर्मबुद्धिः: अथ किम्। तथैव अस्तु।
(यदा तौ स्वनगरसमीपम् आगतवन्तौ तदा) पापबुद्धिः: भद्र! एतत् सर्वं धनं गृहं प्रति नेतुं न उचितम्। अतः एतद् धनम् अत्रैव गहनारण्ये कुत्रापि भूमौ निक्षिप्य किञ्चिन्मात्रम् आदाय गृहं प्रविशावः।
धर्मबुद्धिः: सत्यमेव अभिहितं भवता, तथैव कुर्वः।
(यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ। अन्यस्मिन् अहनि पापबुद्धिः निशीथे अटव्यां गत्वा तत् सर्वं वित्तं समादाय गर्तं पूरयित्वा स्वभवनं गतवान्।)
| शब्द | अर्थ |
|---|---|
| प्रचुरं धनम् | बहुत सारा धन |
| निक्षिप्य | रखकर |
| निशीथे | आधी रात में |
| अटव्याम् | जंगल में |
| गर्तम् | गड्ढे को |
धर्मबुद्धिः: अस्तु मित्र! गच्छावः।
(अथ द्वावपि गत्वा तत्स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ। अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्) पापबुद्धिः: भोः धर्मबुद्धे! त्वयैव अपहृतम् एतद्धनं, नान्येन। तत् प्रयच्छ मे तदर्धम्। अन्यथा अहं राजकुलं निवेदयिष्यामि।
धर्मबुद्धिः: भोः दुरात्मन्! मा मैवं वद। धर्मबुद्धिः खलु अहम्। न एतत् चौरकर्म करोमि। मातृवत् परदारेषु परद्रव्येषु लोष्ठवत्। आत्मवत् सर्वभूतेषु वीक्षन्ते धर्मबुद्धयः॥
(एवं द्वावपि विवदमानौ धर्माधिकारिणं निकषा गतौ) धर्माधिकारी: ननु न कोऽपि साक्षी युवाभ्याम् अन्यतरस्य चौरकर्मणः। अतः यत्र मानुषप्रमाणम् अनुपलब्धं तत्र वनदेवता एव न्यायनिर्णयं करिष्यति। अतः प्रातःकाले युवाम् अस्माभिः सह तत्र वनप्रदेशं गच्छतम्। तत्रैव निर्णयः भविष्यति।
| शब्द | अर्थ |
|---|---|
| रिक्तं भाण्डम् | खाली बर्तन |
| दुरात्मन् | दुष्ट |
| लोष्ठवत् | मिट्टी/पत्थर के टुकड़े के समान |
| वीक्षन्ते | देखते हैं |
| धर्माधिकारी | न्यायाधीश |
पिता: वत्स! द्रुतं वद, अहं किं करवाणि येन तद् द्रव्यं स्थिरं तिष्ठेत्।
पापबुद्धिः: तात! अस्ति वनप्रदेशे महाशमी नाम वृक्षः। तस्मिन् महाकोटरम् अस्ति। तत्र भवान् साम्प्रतम् एव प्रविशतु। ततः प्रभाते यदा अहं सत्यश्रावणाय निवेदयामि, तदा भवता वक्तव्यं यद् धर्मबुद्धिः चौर इति।
(तथा कृते, प्रातःकाले स्नात्वा पापबुद्धिः धर्मबुद्धिना धर्माधिकारिणा च सह न्यायार्थं वनदेवतायाः समीपम् उपागतः। अन्येऽपि सामाजिकाः तद् द्रष्टुम् आगताः)
पापबुद्धिः: आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च। अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम्॥ भगवति वनदेवते! आवयोः मध्ये यः चौरः त्वं कथय।
पिता (शमीकोटरस्थः): भोः! शृणुत, शृणुत! धर्मबुद्धिना हृतम् एतद्धनम्।
(तद् आकर्ण्य ते सर्वे जनाः विस्मयेन उत्फुल्ललोचनाः सञ्जाताः)
| शब्द | अर्थ |
|---|---|
| कोटरम् | पेड़ का खोखला हिस्सा |
| साम्प्रतम् एव | अभी से ही |
| उत्फुल्ललोचनाः | आश्चर्य से फटी हुई आँखों वाले |
| नरस्य वृत्तम् | मनुष्य का आचरण |
धर्मबुद्धिः: इदं मिथ्याभाषितम् अस्ति। न अहं चोरितवान्। अहम् एतत् शमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ट्य वह्निना प्रज्वालयामि।
(तथा करोति। अथ ज्वलति तस्मिन् शमीकोटरे अर्धदग्धशरीरः स्फुटितेक्षणः करुणं विलपन् पापबुद्धिपिता बहिरागतः)
जनाः (साश्चर्यम्): भोः! किमिदम्? किमिदम्?
पिता पापबुद्धेः: एतत् सर्वम् अपि पापबुद्धेः चेष्टितम्। (इत्युक्त्वा मृतः)
धर्माधिकारी: एष पापबुद्धिः दण्डनीयः।
(राजपुरुषाः नियमानुसारं पापबुद्धिं दण्डितवन्तः धर्मबुद्धिं प्रशंसितवन्तः च)
सर्वे जनाः: भो धर्मबुद्धे! त्वया सम्यक् कृतम्। पापबुद्धेः व्यर्थपाण्डित्यात् पिता वह्निना घातितः। अतः साधुक्तम् — उपायं चिन्तयेत् प्राज्ञस्तथापायं च चिन्तयेत्।
| शब्द | अर्थ |
|---|---|
| मिथ्याभाषितम् | झूठ बोला गया |
| परिवेष्ट्य | घेरकर |
| स्फुटितेक्षणः | फटी हुई आँखों वाला |
| व्यर्थपाण्डित्यात् | व्यर्थ की चतुराई से |
अभ्यास प्रश्न (उत्तर सहित)
(क) नरस्य वृत्तं के जानन्ति?
उत्तरम्: आदित्य, चन्द्र, वायु, अग्नि, आकाश, भूमि, जल, हृदय, यम, दिनम्, रात्रिः, संध्ये च नरस्य वृत्तं जानन्ति।
(ख) धर्मबुद्धयः किं वीक्षन्ते?
उत्तरम्: धर्मबुद्धयः परदारेषु मातृवत्, परद्रव्येषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् वीक्षन्ते।
(ग) कस्य जन्मनः फलं व्यर्थम्?
उत्तरम्: यः देशान्तरेषु न भ्रमति, विविधभाषाः वेषादि च न जानाति, तस्य जन्मनः फलं व्यर्थम्।
(घ) पापबुद्धिः स्वपितरं किम् उक्तवान्?
उत्तरम्: पापबुद्धिः स्वपितरम् उक्तवान् यत् तेन धर्मबुद्धेः प्रभूतः अर्थः चोरितः। यदि सः तस्य उक्तप्रकारेण वदति तर्हि तद्धनं तस्मिन् स्थिरं तिष्ठति।
(ङ) प्राज्ञः किं-किं चिन्तयेत्?
उत्तरम्: प्राज्ञः उपायं तथा अपायं च चिन्तयेत्।
(च) मानवः कदा विद्यां वित्तं शिल्पं च प्राप्नोति?
उत्तरम्: यदा मानवः हृष्टः सन् भूमौ देशाद्देशान्तरं व्रजति, तदा सः विद्यां वित्तं शिल्पं च सम्यक् प्राप्नोति।
(छ) पापबुद्धिः किं चिन्तयित्वा देशान्तरं प्रस्थितः?
उत्तरम्: पापबुद्धिः चिन्तयित्वा यत् अहं धर्मबुद्धिं स्वीकृत्य अन्यं देशं गच्छामि, तत्र अस्य आश्रयणेन धनं सम्पादयामि, अनन्तरम् एनमपि वञ्चयित्वा सुखी भवामि इति।
(क) एनम् अपि वञ्चयित्वा सुखी भवामि।
प्रश्नः: कम् अपि वञ्चयित्वा सुखी भवामि?
(ख) सर्वं धनं स्वीकृत्य स्वग्रामं गच्छावः।
प्रश्नः: सर्वं धनं स्वीकृत्य कुत्र गच्छावः?
(ग) निशीथे अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान्।
प्रश्नः: कदा अटव्यां गत्वा तत् सर्वं वित्तम् आनीतवान्?
(घ) तत् आकर्ण्य सर्वे ते जनाः विस्मयोत्फुल्ललोचनाः सञ्जाताः।
प्रश्नः: तत् आकर्ण्य सर्वे ते जनाः कीदृशाः सञ्जाताः?
(ङ) अहम् एतत् शमीकोटरं वह्निना प्रज्वालयामि।
प्रश्नः: अहम् एतत् शमीकोटरं केन प्रज्वालयामि?
(क) वत्स! द्रुतं वद येन तद् द्रव्यं स्थिरं तिष्ठेत्।
उत्तरम्: पापबुद्धेः पिता पापबुद्धिं प्रति कथयति।
(ख) प्रातःकाले युवामस्माभिः सह तत्र वनप्रदेशं गच्छतम्।
उत्तरम्: धर्माधिकारी धर्मबुद्धिं पापबुद्धिं च प्रति कथयति।
(ग) त्वया हृतम् एतद्धनं, नान्येन।
उत्तरम्: पापबुद्धिः धर्मबुद्धिं प्रति कथयति।
(घ) भोः दुरात्मन्! मा मैवं वद।
उत्तरम्: धर्मबुद्धिः पापबुद्धिं प्रति कथयति।
(ङ) एतत् सर्वमपि पापबुद्धेः चेष्टितम्।
उत्तरम्: पापबुद्धेः पिता सर्वान् जनान् प्रति कथयति।
(उदाहरणम् — भवानपि मया सहैव प्रभूतं धनं प्राप्तवान्। -> भवानपि मया सहैव प्रभूतं धनं प्राप्नोति।)
(क) राजपुरुषाः पापबुद्धिं दण्डितवन्तः।
उत्तरम्: राजपुरुषाः पापबुद्धिं दण्डयन्ति।
(ख) पापबुद्धिः अत्यधिकं धनं सम्पादितवान्।
उत्तरम्: पापबुद्धिः अत्यधिकं धनं सम्पादयति।
(ग) पापबुद्धिः वनदेवतायाः समीपम् आगतवान्।
उत्तरम्: पापबुद्धिः वनदेवतायाः समीपम् आगच्छति।
(घ) अत्रान्तरे पापबुद्धिः शिरस्ताडयन् उक्तवान्।
उत्तरम्: अत्रान्तरे पापबुद्धिः शिरस्ताडयन् वदति।
(ङ) सर्वे जनाः धर्मबुद्धिं प्रशंसितवन्तः।
उत्तरम्: सर्वे जनाः धर्मबुद्धिं प्रशंसन्ति।
(क) सूर्यः चन्द्रः पवनः अग्निः आकाशः भूमिः जलं हृदयं यमः दिवसः रात्रिः प्रभातं सायं च मनुष्याणां सर्वविधं व्यवहारं जानन्ति। अतः वयं सर्वदा उत्तमं व्यवहारं कुमः। (व्यवहारं/पवनः/हृदयं)
(ख) यः अन्यदेशेषु न अटति, विविधदेशानां संस्कृतीः भाषाः च न जानाति, पृथिवीपृष्ठे तस्य जन्म व्यर्थ भाति। (भाषाः/व्यर्थ/अन्यदेशेषु)
(ग) सज्जनाः सर्वासु नारीषु मातरः इव, अन्येषां द्रव्येषु मृत्पिण्डम् इव, सर्वेषु प्राणिषु च स्वयम् इव चिन्तयन्ति। (द्रव्येषु/स्वयम्/मातरः)
(घ) बुद्धिमान् मनुष्यः कार्यसाधनस्य मार्गान् समस्यादरीकरणस्य कौशलानि च जानीयात्। (कौशलानि/कार्यसाधनस्य/जानीयात्)
(उदाहरणम् — अर्थोपार्जनम् -> अर्थस्य उपार्जनम्)
(क) गुरुजनाज्ञया -> गुरुजनानाम् आज्ञया (षष्ठी तत्पुरुषः)
(ख) वनदेवता -> वनस्य देवता (षष्ठी तत्पुरुषः)
(ग) धनाभावात् -> धनस्य अभावात् (षष्ठी तत्पुरुषः)
(घ) बुद्धिप्रभावेण -> बुद्धेः प्रभावेण (षष्ठी तत्पुरुषः)
(ङ) धरणीपीठे -> धरण्याः पीठे (षष्ठी तत्पुरुषः)
(च) राजकुलं -> राज्ञः कुलम् (षष्ठी तत्पुरुषः)
(सही क्रम में उत्तर: घ -> ख -> ङ -> ग -> क -> च)
सही क्रम:
१. कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः स्म। (घ)
२. ततस्तौ गुरुजनानाम् अनुमतिं प्राप्य शुभेऽहनि देशान्तरं प्रस्थितौ। (ख)
३. यथा द्वाभ्यां चिन्तितं तथैव भूमिं खनित्वा तत्रैव धनं निक्षिप्य स्वगृहं गतवन्तौ। (ङ)
४. द्वावपि गत्वा तत् स्थानं यावत् खनतः तावद् रिक्तं भाण्डं दृष्टवन्तौ। (ग)
५. भवान् यदि मदुक्तप्रकारेण वदति तर्हि तद्धनं मयि स्थिरं तिष्ठति। (क)
६. राजपुरुषाः पापबुद्धिं दण्डितवन्तः। (च)