SANSKRITGYAN.IN • संस्कृत-व्याकरण-माला
अव्यय-पदानि (सोदाहरणाभ्यासः अभ्यासप्रश्नाश्च)
कक्षा-नवमी (CBSE) पाठ्यक्रमानुसारम् अव्ययपदानां विस्तृत-विवरणम्, सोदाहरण-सारणी, मञ्जूषा-आधारितः वस्तुनिष्ठ-अभ्यासः
📖 अव्ययस्य परिभाषा (Definition)
अव्ययम् (न व्ययः इति अव्ययम्) — येषां शब्दानां रूपेषु लिङ्ग-वचन-विभक्तिनां परिवर्तनेनापि किमपि परिवर्तनं (विकारः) न भवति, ते शब्दाः 'अव्ययपदानि' कथ्यन्ते ।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
(अर्थात् जो शब्द तीनों लिङ्गों, सभी विभक्तियों एवं तीनों वचनों में एक समान रहता है/परिवर्तित नहीं होता है, वह अव्यय शब्द कहलाता है।)
📋 कक्षा-नवमी (CBSE) पाठ्यक्रमे निर्धारितानि अव्ययपदानि
अधोदत्तायां सारण्याम् अव्ययपदानि तेषामर्थाः वाक्यप्रयोगैः सह दीयन्ते—
| क्र.सं. | अव्यय-पदम् | अर्थः (हिन्दी) | वाक्यप्रयोगः (उदाहरणम्) |
|---|---|---|---|
| 1 | अत्र | यहाँ | अहं अत्र पठामि । |
| 2 | तत्र | वहाँ | यत्र नारीणां सम्मानं भवति तत्र देवताः रमन्ते । |
| 3 | अन्यत्र | कहीं और | अन्यत्र गत्वा पाठं पठ । |
| 4 | सर्वत्र | सब जगह | ईश्वरः सर्वत्र वसति । |
| 5 | यत्र | जहाँ | यत्र नारीणां सम्मानं भवति तत्र देवताः रमन्ते । |
| 6 | एकत्र | एक साथ | वयं एकत्र पठामः । |
| 7 | उभयत्र | दोनों तरफ | विद्यालयम् उभयत्र वृक्षाः सन्ति । |
| 8 | यदा | जब | यदा धर्मस्य हानिः भवति , तदा अहं आत्मानं सृजामि । |
| 9 | तदा | तब | यदा धर्मस्य हानिः भवति , तदा अहं आत्मानं सृजामि । |
| 10 | सर्वदा | हमेशा | अहं सर्वदा सत्यं वदामि । |
| 11 | एकदा | एक बार | एकदा वने एकः सिंहः निवसति स्म । |
| 12 | पुरा | पहले / प्राचीन काल में | पुरा एकः नृपः आसीत् । |
| 13 | अधुना | अब | अधुना अहं श्लोकं वदामि । |
| 14 | अद्य | आज | अद्य वर्षा भविष्यति । |
| 15 | श्वः | आने वाला कल | श्वः जनकः कार्यालयं गमिष्यति । |
| 16 | ह्यः | बीता हुआ कल | ह्यः अहं गृहकार्यम् अकरवम् । |
| 17 | किम् | क्या | त्वं किं पठसि ? |
| 18 | कुत्र | कहाँ | भवान् कुत्र पठति ? |
| 19 | कति | कितने | पुस्तके कति अध्यायाः सन्ति ? |
| 20 | कदा | कब | जनकः कदा आगमिष्यति ? |
| 21 | कुतः | कहाँ से | छात्रः कुतः आगच्छति ? |
| 22 | कथम् | कैसे | काश्मीरे वातावरणं कथम् अस्ति ? |
| 23 | किमर्थम् | किसलिए | त्वं उद्यानं किमर्थं गच्छसि ? |
| 24 | च | और | राघवः राजेशः च पठतः । |
| 25 | अपि | भी | अहम् अपि संस्कृतम् पठामि । |
| 26 | यदि-तर्हि | अगर-तो | यदि परिश्रमः करिष्यसि , तर्हि त्वं सफलः भविष्यसि । |
| 27 | यथा-तथा | जैसे-वैसे | यथा राजा , तथा प्रजा । |
| 28 | सम्यक् | सही / भली-भाँति | सम्यक् प्रश्नः अस्ति । |
| 29 | एव | ही | अहम् एव अस्य दलस्य नेता अस्मि । |
| 30 | तु | तो | अहं तु सर्वं जानामि । |
ऑनलाइन परीक्षणम्
अव्यय-अभ्यास-प्रश्नोत्तरी (मञ्जूषा-सहिता)
अधोलिखितेषु त्रिषु अभ्यास-वर्गेषु मञ्जूषातः उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु। अन्ते सबमिट-बटन् दापयित्वा स्व-परिणामं पश्यन्तु।
