NCERT Class 9 Sanskrit Chapter 5 Esha Sa Kritakabuddhih Worksheet with Answers

शारदा (कक्षा ९) : पञ्चमः पाठः

एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी | अभ्यासाय कार्यपत्रकम् (Interactive Worksheet)

📝 निर्देशः: अधोलिखितं नाट्यांशं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत। स्व-मूल्याङ्कनाय प्रत्येकप्रश्नाधः दत्ते '👁️ उत्तरं पश्यतु' बटने क्लिक् कृत्वा शुद्धम् उत्तरं द्रष्टुं शक्नुवन्ति।
नाट्यांशः १ (भागः १-२)
यशिका: महोदय ! अद्य अहम् किञ्चन चालकरहितं पटु-कारयानं दृष्टवती। अहम् आश्चर्यचकिता। किम् एतत् संभवम् ?
अध्यापकः: अवश्यं यशिके ! एतत् कृतकबुद्ध्या सम्भवति।
श्रेया: आचार्य ! अहं जानामि। यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धिः उपस्थिता अस्ति इति जानीमः।
अध्यापकः: सुष्ठु ! यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति, सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते। चैट-जीपीटी, सिरि, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा-कृतकबुद्धिः चेत्यादयः अनुप्रयुक्ततन्त्रविशेषाः कृतकबुद्धियुक्ताः सन्ति।
अथर्वः: मम माता 'एलेक्सा' नामकस्य यन्त्रस्य उपयोगं करोति। एतत् गीतं गायति, विद्युद्दीपं ज्वालयति, दैनिकसंवादं वातावरणस्थितिं च सूचयति।
(अ) एकपदेन उत्तरत (केवलम् प्रश्नद्वयम् / एक शब्द में उत्तर दीजिए):
१. यशिका कीदृशं कारयानं दृष्टवती ?
उत्तरम्: चालकरहितम् (पटु-कारयानम्)
२. कानि मनुष्यवत् चिन्तयन्ति निर्णयं च कुर्वन्ति ?
उत्तरम्: यन्त्राणि
३. 'एलेक्सा' इति यन्त्रं किं ज्वालयति ?
उत्तरम्: विद्युद्दीपम्
(आ) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दीजिए):
१. वैज्ञानिकाः 'कृतकबुद्धिः' इति किं मन्यन्ते ?
उत्तरम्: यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति, सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते।
२. 'एलेक्सा' इति यन्त्रं कानि कानि कार्याणि करोति ?
उत्तरम्: एलेक्सा इति यन्त्रं गीतं गायति, विद्युद्दीपं ज्वालयति, दैनिकसंवादं वातावरणस्थितिं च सूचयति।
(इ) भाषिक-कार्यम् (व्याकरण-आधारित प्रश्न):
१. 'अहम् आश्चर्यचकिता।' अत्र 'अहम्' इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम्: यशिकायै (यशिका-कृते)
२. 'अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति।' अस्मिन् वाक्ये 'कर्तृपदं' किम् अस्ति ?
उत्तरम्: यन्त्राणि (अचेतनयन्त्राणि)
३. 'चालकरहितम्' इति पदस्य विशेष्यपदं नाट्यांशात् चित्वा लिखत।
उत्तरम्: कारयानम् (पटु-कारयानम्)
४. 'असाधु' इति पदस्य कः विलोमशब्दः नाट्यांशे प्रयुक्तः ?
उत्तरम्: साधु (अथवा सुष्ठु)
५. 'अपश्यत्' इत्यस्य अर्थे श्लोके/नाट्यांशे किं क्रियापदं प्रयुक्तम् ?
उत्तरम्: दृष्टवती
नाट्यांशः २ (भागः ३-४)
अध्यापकः: प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति। अस्याः यन्त्रपाठशालायाः नाम "डेटासेट्" इति ! यदा प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति। एषः दोषः 'पूर्वाग्रहः' इति कथ्यते।
श्रेया: गुरुवर ! एषा बुद्धिः केषु स्थलेषु उपयुज्यते ?
अध्यापकः: शिक्षायां, चिकित्सायां, कृषिक्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासङ्गीतक्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु च कृतकबुद्धिः भूरिशः उपयुज्यते। कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति। ते अनुशासनं, परोपकारं, करुणां, तथैव व्यवहारज्ञानं च शिक्षयन्ति।
(अ) एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए):
१. यन्त्रपाठशालायाः नाम किम् अस्ति ?
उत्तरम्: डेटासेट्
२. पक्षपातयुक्तः प्रशिक्षणदत्तांशस्य दोषः कः कथ्यते ?
उत्तरम्: पूर्वाग्रहः (Bias)
३. कृतकबुद्धिः कस्य मित्रम् अस्ति ?
उत्तरम्: गुरोः (गुरुमित्रम्)
(आ) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दीजिए):
१. शिक्षकाः छात्रेषु केषां बोधं जनयन्ति ?
उत्तरम्: शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति।
२. प्रौद्योगिकीविशारदाः केन विधिना यन्त्राणि प्रशिक्षयन्ति ?
उत्तरम्: प्रौद्योगिकीविशारदाः यन्त्राधिगमः (Machine Learning), गहनाधिगमः (Deep Learning) चेति विधिना यन्त्राणि प्रशिक्षयन्ति।
(इ) भाषिक-कार्यम् (व्याकरण-आधारित प्रश्न):
१. 'शिक्षकाः अनुशासनं शिक्षयन्ति।' अत्र 'शिक्षयन्ति' इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम्: शिक्षकाः
२. 'मानवीयमूल्यबोधम्' अस्मिन् पदे 'विशेषणपदं' किम् अस्ति ?
उत्तरम्: मानवीयम्
३. 'उत्पादयन्ति' इति पदस्य समानार्थकं पदं नाट्यांशात् चित्वा लिखत।
उत्तरम्: जनयन्ति
४. 'अल्पशः' इति पदस्य कः विलोमशब्दः अत्र प्रयुक्तः ?
उत्तरम्: भूरिशः
नाट्यांशः ३ (भागः ५-६)
अध्यापकः: डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं, ध्वनिः वा अस्ति। अस्य निराकरणार्थं कृतकबुद्धि-साक्षरता, अस्माकं नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्मनियन्त्रणं चेति विविधाः उपायाः अस्माभिः करणीयाः। भारतसर्वकारेण स्किल्-इण्डिया, डिजिटल्-इण्डिया योजनाः सञ्चाल्यन्ते। यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगमं, सुरक्षितं श्रेयस्करं च भविष्यति। 'कृतकबुद्धिः मानवबुद्धेः सहकरी' - इति वाक्यम् अस्माकं मनसि स्पष्टं स्यात्।
(अ) एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए):
१. कृतकबुद्ध्या निर्मितं मिथ्याचित्रं किं कथ्यते ?
उत्तरम्: डीप्-फेक् (Deepfake)
२. विवेकपूर्वकं प्रयोगेण मानवजीवनं कीदृशं भविष्यति ?
उत्तरम्: सुगमम् / सुरक्षितम् / श्रेयस्करम्
(आ) पूर्णवाक्येन उत्तरत (पूर्ण वाक्य में उत्तर दीजिए):
१. डीप्-फेक् समस्यायाः निराकरणाय के उपायाः करणीयाः ?
उत्तरम्: डीप्-फेक् समस्यायाः निराकरणाय कृतकबुद्धि-साक्षरता, नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्मनियन्त्रणं च करणीयाः।
२. भारतसर्वकारेण काः योजनाः सञ्चाल्यन्ते ?
उत्तरम्: भारतसर्वकारेण स्किल्-इण्डिया, डिजिटल्-इण्डिया, ई-स्किल्-इण्डिया चेत्याद्याः अनेकाः योजनाः सञ्चाल्यन्ते।
(इ) भाषिक-कार्यम् (व्याकरण-आधारित प्रश्न):
१. 'जीवनम् अधिकं सुगमं भविष्यति।' अत्र 'भविष्यति' इति क्रियापदस्य लकारः कः ?
उत्तरम्: लृट्लकारः (प्रथमपुरुषः, एकवचनम्)
२. 'दुर्गमम्' इति पदस्य विलोमपदं गद्यांशात् चित्वा लिखत।
उत्तरम्: सुगमम्
३. 'अनेकाः योजनाः' अनयोः पदयोः 'विशेष्यपदं' किम् अस्ति ?
उत्तरम्: योजनाः
🎯 पृथक्-प्रकारः : प्रश्ननिर्माण-अभ्यासः (Question Formation)

निर्देशः: रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (नीचे दिए गए वाक्यों में अंडरलाइन पदों के आधार पर प्रश्न बनाइए):

१. एतत् कृतकबुद्ध्या सम्भवति।
प्रश्नः: एतत् कया सम्भवति?
२. यन्त्राणि मनुष्यवत् चिन्तयन्ति।
प्रश्नः: यन्त्राणि कथम् चिन्तयन्ति?
३. यन्त्रपाठशालायाः नाम डेटासेट् इति अस्ति।
प्रश्नः: यन्त्रपाठशालायाः नाम किम् इति अस्ति?
४. कृतकबुद्धिः शिक्षकाणाम् अनुपस्थितौ पाठयितुं शक्नोति।
प्रश्नः: कृतकबुद्धिः केषाम् अनुपस्थितौ पाठयितुं शक्नोति?
५. कृषि-क्षेत्रे ड्रोनमाध्यमेन बीज-वपनं भवति।
प्रश्नः: कृषि-क्षेत्रे केन (कथम्) बीज-वपनं भवति?
६. डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं अस्ति।
प्रश्नः: किम् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं अस्ति?
७. भारतसर्वकारेण डिजिटल्-इण्डिया योजना सञ्चाल्यते।
प्रश्नः: भारतसर्वकारेण का योजना सञ्चाल्यते?

Post a Comment

Previous Post Next Post