प्रश्न-अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत –
"चलभाषियन्त्रम्” वर्तमानयुगस्य जीवनम् एव वर्तते । अस्य
मुख्यं प्रयोजनं दूरस्थेन जनेन सह वार्तालापः इति, परम् अद्य अस्माकं जीवनशैली एव अनेन पूर्णतया प्रभाविता
वर्तते । अधुना अनेन केवलं वार्ता एव न भवति अपितु वार्तया सहैव वयं प्रियजनं
द्रष्टुम् अपि सक्षमाः । अपि च ईमेल-फेसबुक-व्हाटसएप-माध्यमैः वार्ता सुकरा भवति ।
अस्य माध्यमेन गमनागमनार्थं शीघ्रमेव जनाः सरलतया वाहनं प्राप्नुवन्ति । यदि कदापि
वयं मार्ग विस्मरामः तदा उचितं मार्गं प्रदर्शयितुम् अपि इदम् श्रेयस्करम् । न
केवलमेतदेव अपितु एतत् यन्त्रं विभिन्नाभिः क्रीडाभिः मनोरञ्जनं चापि करोति, अतः बालाः, वृद्धाः, युवकाः सर्वे एव एतस्य यन्त्रस्य दासाः अभवन् । अधुना तु
इदं यन्त्रं मित्रं, विद्यालयः, मार्गदर्शकः च सर्वमपि अभवत् ।
(अ) एकपदेन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x1=2
(i) वर्तमानयुगस्य जीवनं किं
वर्तते ?
(ii) के सरलतया वाहनं प्राप्नुवन्ति
?
(iii) एतत् यन्त्रं काभिः मनोरञ्जनं
करोति ?
(आ) पूर्णवाक्येन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x2=4
(i) अद्य चलभाषियन्त्रेण का
प्रभाविता वर्तते ?
(ii) अधुना वार्ता कैः सुकरा भवति ?
(iii) के एतस्य यन्त्रस्य दासाः अभवन्
?
(इ) अस्य
अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1
(ई) यथानिर्देशम्
उत्तरत- (केवलं प्रश्नत्रयम्) 3x1=3
(i) ‘अभवन्’ इति क्रियापदस्य कर्तृपदं किम् ?
(A) युवकाः (B) दासाः
(C) जनाः (D) मार्गदर्शकः
(ii) ‘सुकरा’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(A) जनाः (B) वार्ता
(C) वार्तया (D) जीवनशैली
(iii) ‘हितकरम्’ इति पदस्य किं पर्यायपदं गद्यांशे
प्रयुक्तम् ?
(A) मनोरञ्जनम् (B) सुकरम्
(C) प्रयोजनम् (D) श्रेयस्करम्
(iv) ‘कठिनतया ‘ इति पदस्य विपर्ययपदं किं प्रयुक्तम् ?
(A) पूर्णतया (B) वार्तया
(C) सरलतया (D) प्रभावितया
मित्रों के साथ साझा करें:
🟢 WhatsApp पर शेयर करें