प्रश्न- अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत –
'संस्कृतभाषा सर्वभाषाणां जननी' इत्युच्यते । परम् अद्यत्वे छात्राणां मध्ये एकः चर्चितः
प्रश्नः वर्तते यत् “संस्कृतपठनेन के लाभाः ?” अर्थात् संस्कृतपठनेन जीवनवृत्तेः अवसराः के ? वस्तुतः भौतिके युगे ईदृशी जिज्ञासा स्वाभाविकी एव । अस्याः
जिज्ञासायाः समुचितं समाधानं सञ्चारमाध्यमेन कर्तुं शक्यते । वयम् पश्यामः यत्
अद्यत्वे संस्कृतपठनेन नैके लाभाः सन्ति । संस्कृतभाषा विश्वस्य प्राचीनतमासु
भाषासु अन्यतमा अस्ति । ऐतिहासिकदृष्ट्या संस्कृते लिखिताः ग्रन्थाः वेदाः
महत्त्वपूर्णं स्थानं भजन्ते । आधुनिकसंस्कृतस्य वैज्ञानिकभाषारूपेण सर्वत्र
महत्त्वपूर्ण स्थानं दृश्यते । यदा विश्वं कृत्रिममेधा विषये अनुसन्धानं करोति
तत्र संस्कृतं महत् साहाय्यं कर्तुं शक्नोति । यतो हि संस्कृतस्य व्याकरणं
पूर्णतया वैज्ञानिकम् अस्ति । वर्तमान समये संस्कृतस्य अध्येतारः
शिक्षणकौशल-चिकित्सा-खगोल-विद्या-वास्तुविद्या-'आई.ए.एस.' प्रभृति
। सर्वेषु क्षेत्रेषु स्वप्रतिभाप्रदर्शनं कुर्वन्ति । अस्माकं संस्कृतिः
संस्कृताधारिता अपि । अत एव संस्कृतभाषायाः अध्ययनं जीवनमूल्यपरकम्
जीवनवृत्तिसाधनपरम् च अस्ति, नात्र
कोऽपि सन्देहः ।
(अ) एकपदेन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x1=2
(i) सर्वभाषाणां जननी का ?
(ii) अस्माकं संस्कृतिः का आधारिता
वर्तते ?
(iii) कस्य व्याकरणं वैज्ञानिकम् ?
(आ) पूर्णवाक्येन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x2=4
(i) ऐतिहासिकदृष्ट्या के
महत्वपूर्णं स्थानं भजन्ते ?
(ii) वर्तमानसमये शिक्षणकौशलादिषु
सर्वेषु क्षेत्रेषु के स्वप्रतिभा-प्रदर्शनं कुर्वन्ति ?
(iii) संस्कृतभाषायाः अध्ययनं कीदृशम् अस्ति ?
(इ) अस्य
अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1
(ई) यथानिर्देशम्
उत्तरत- (केवलं प्रश्नत्रयम्) 3x1=3
(i) ‘पश्यामः’ इति क्रियापदस्य कर्तृपदं किम् ?
(A) नैके (B) वयम्
(C) लाभाः (D) संस्कृतपठनेन
(ii) ‘समुचितम्’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(A) समाधानम् (B) संस्कृतशिक्षकः
(C) स्वानुभवैः (D) जिज्ञासायाः
(iii) ‘हानयः’ इति पदस्य किं विपर्ययपदं गद्यांशे
प्रयुक्तम् ?
(A) सन्ति (B) लिखिताः
(C) लाभाः (D) नैके
(iv) ‘अध्येतारः‘ इति कर्तृपदस्य क्रियापदं किं प्रयुक्तम्
?
(A) अस्ति (B) सन्ति
(C) भजन्ते (D) कुर्वन्ति
मित्रों के साथ साझा करें:
🟢 WhatsApp पर शेयर करें