प्रश्न- अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत –
अस्माकम् देशः प्राचीनकालादेव प्राकृतिक-पर्यावरणस्य पोषकः
। वैदिककाले यद्यपि पर्यावरणस्य
प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरणविषयकं
चिन्तनं दृश्यते । अद्य पर्यावरण-प्रदूषणं संसारस्य भीषणतमा समस्या वर्तते, परं जनाः अस्याः गाम्भीर्यं न अनुभवन्ति । पर्यावरणं
रक्षणीयं वृक्षाः रोपणीयाः रक्षणीयाः च इति शृण्वन्तः उद्घोषयन्तः अपि वयं
प्रतिदिनं तेषां कर्तनं पश्यामः । 'प्लास्टिक' इति
रसायनेन निर्मितवस्तूनि पर्यावरणाय हानिकराणि इति जानन्तः अपि जनाः एतेषां प्रयोगं
बाहुल्येन कुर्वन्ति । पर्यावरणप्रदूषकं धूमं क्षिपतां वाहनानाम्
औद्योगिक-यन्त्रागाराणां सङ्ख्या निरन्तरं वर्धमाना अस्ति । यद्यपि विकासाय नवीनाः
आविष्काराः, अपेक्षिताः परं
सञ्चाराय विस्तृताः सुरक्षिताः मार्गाः जनानां कृते अपि आवश्यकाः एव । यदि
पर्यावरणं प्राणिजीवनाय अनुकूलं न भविष्यति तर्हि पृथिव्यां जीवनमेव असम्भवं
भविष्यति तदा भौतिकनिकासेन किम् ! अतः सर्वकारः जनसहयोगेन सर्वथा पर्यावरणरक्षणाय
यत्नशीलः भवेदिति ।
(अ) एकपदेन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x1=2
(i) के रोपणीयाः रक्षणीयाः च ?
(ii) कदा पर्यावरणस्य प्रदूषणस्य
समस्या न आसीत् ?
(iii) अस्माकं देशः कस्य पोषकः ?
(आ) पूर्णवाक्येन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x2=4
(i) किं जानन्तः जनाः
प्लास्टिक-निर्मितवस्तूनां प्रयोगं बाहुल्येन कुर्वन्ति ?
(ii) यदि पर्यावरणं प्राणिजीवनाय
अनुकूलं भविष्यति तर्हिं किं भविष्यति ?
(iii) केषां सङ्ख्या निरन्तरं वर्धमाना अस्ति ?
(इ) अस्य
अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1
(ई) यथानिर्देशम्
उत्तरत- (केवलं प्रश्नत्रयम्) 3x1=3
(i) ‘जनाः अस्य गाम्भीर्यं न अनुभवन्ति’ अत्र किं
क्रियापदम् ?
(A) जनाः (B) अत्र
(C) अस्याः (D) अनुभवन्ति
(ii) ‘नवीनाः’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(A) जनाः (B) अविष्काराः
(C) अपेक्षिताः (D) मार्गाः
(iii) ‘शोषकः’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्
?
(A) विषयः (B) चिन्तनीयः
(C) सरलः (D) पोषकः
(iv) ‘वयं प्रतिदिनं तेषां कर्तनं पश्यामः।‘ अस्मिन्
वाक्ये ‘पश्यामः’ क्रियायाः कर्तृपदं किं प्रयुक्तम् ?
(A) जनेभ्यः (B) सर्वेभ्यः
(C) नदीभ्यः (D) वृक्षेभ्यः
मित्रों के साथ साझा करें:
🟢 WhatsApp पर शेयर करें