प्रश्न- अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत –
परोपकारः अर्थात् परेषाम् उपकारः अस्ति । परोपकारस्य
प्रवृत्त्या एव मनुष्यः पशुभ्यः पृथक् भवति । आहारादिप्रवृत्तिषु पशवः मानवैः समं
भवन्ति,
परं मानवः स्वविवेकेन ज्ञानेन च आत्मनः उन्नतिं करोति । अपि
च,
न केवलं मानवाः अपितु अस्माकं प्रकृतिः अपि परेभ्यः एव
अस्ति । यथा वृक्षाः स्वफलानि न खादन्ति, ते परेषां कृते एव फलानि छायां च यच्छन्ति । नद्यः
परोपकाराय एव वहन्ति । गावः अन्येभ्यः एव दुग्धं यच्छन्ति । अस्माकं पुण्यभूमौ
अनेके महापुरुषाः अभवन् ये स्वप्राणान् परित्यज्य देशस्य समाजस्य च रक्षाम्
अकुर्वन् । राजा शिविः शरणागतस्य कपोतस्य रक्षायै स्वशरीरस्य मांसं कर्तयित्वा
श्येनाय दत्तवान् । ऋषिः दधीचिः अपि वृत्रासुरवधाय स्वास्थीनि सहर्षम् अयच्छत् ।
अद्यापि लोके अनेके समाजसुधारकाः सन्ति ये स्वार्थं परित्यज्य लोककल्याणं
कुर्वन्ति ।
अतः सत्यमेव कथितम् -
अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ।।
(अ)एकपदेन
उत्तरत-(केवलं प्रश्नद्वयम्) 2x1=2
(i) का परोपकाराय एव भवन्ति ?
(ii) केषु पशवः मानवैः समं भवन्ति ?
(iii) कः वृत्रासुरवधाय स्वास्थीनि
सहर्षम् अयच्छत् ?
(आ)पूर्णवाक्येन
उत्तरत-(केवलं प्रश्नद्वयम्) 2x2=4
(i) मनुष्यः पशुभ्यः कथं पृथक्
भवति ?
(ii) राजा शिविः शरणागतस्य कपोतस्य
रक्षायै किं कृतवान् ?
(iii) मानवः केन आत्मनः उन्नतिं करोति ?
(इ) अस्य
अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1
(ई)यथानिर्देशम्
उत्तरत- (केवलं प्रश्नत्रयम्) 3x1=3
(i) ‘गावः अन्येभ्यः एव दुग्धं यच्छति’ अत्र किं
कर्तृपदम् ?
(A) गावः (B) अन्येभ्यः
(C) यच्छन्ति (D) एव
(ii) ‘दधीचिः’ इति विशेषणपदस्य विशेष्यपदं किम् ?
(A) ऋषिः (B) गावः
(C) मानवः (D) पशवः
(iii) ‘तरवः’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्
?
(A) नद्यः (B) वृक्षाः
(C) गावः (D) फलानि
(iv) ‘ते परेषां कृते एव फलानि छायां च यच्छन्ति’ अस्मिन्
वाक्ये ‘ते’ इति पदं कस्मै प्रयुक्तम्?
(A) जनेभ्यः (B) सर्वेभ्यः
(C) नदीभ्यः (D) वृक्षेभ्यः
मित्रों के साथ साझा करें:
🟢 WhatsApp पर शेयर करें