प्रश्न-अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्
उत्तराणि संस्कृतेन लिखत –
“शरीरमाद्यं खलु धर्मसाधनम्" अर्थात् शरीरम् एव
सर्वेषां कर्तव्यानां प्रमुखं साधनं वर्तते । वयं सर्वाणि कार्याणि शरीरेण एव
कर्तुं सक्षमाः । यद्यपि
सामाजिकम्-धार्मिकम्-राजनैतिकम्-पारिवारिकम्-वैयक्तिककार्याणि च अपि शरीरेण एव
भवन्ति परं तथापि वयम् अस्य एव अवहेलनां कुर्मः । अद्य जनाः स्वकार्येषु अत्यधिकं
निमग्नाः सन्ति । अतः ते स्वशरीरं प्रति पूर्णतः उदासीनाः दृश्यन्ते । ते न तु
समयेन खादन्ति, न पिबन्ति, न व्यायामं कुर्वन्ति, न विश्रामं कुर्वन्ति । वस्तुतः ते स्वस्थं भवितुं किमपि न
कुर्वन्ति, केवलं धनं प्राप्तुं
व्यग्राः दृश्यन्ते । एतदर्थमेव ते अधुना शरीरेण स्वस्थाः न सन्ति अपितु तेषां
शरीरं रोगाणां गृहम् अस्ति । अतः इदम् अस्माकं कर्तव्यं यत् वयं स्वास्थ्यं प्रति
जागरूकाः भवेम ।
(अ) एकपदेन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x1=2
(i) शरीरं केषां प्रमुखं साधनम्
अस्ति ?
(ii) सर्वाणि कार्याणि केन कर्तुं
सक्षमाः ?
(iii) जनाः किं प्राप्तुं व्यग्राः
दृश्यन्ते ?
(आ) पूर्णवाक्येन
उत्तरत- (केवलं प्रश्नद्वयम्) 2x2=4
(i) कानि कानि कार्याणि शरीरेण एव
भवन्ति ?
(ii) जनाः कं प्रति पूर्णतः उदासीनाः
सन्ति ?
(iii) अस्माकं किं कर्तव्यम् ?
(इ) अस्य
अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत । 1
(ई) यथानिर्देशम्
उत्तरत- (केवलं प्रश्नत्रयम्) 3x1=3
(i) ‘भवेम’ इति क्रियापदस्य कर्तृपदं किम् ?
(A) वयम् (B) ते
(C) शरीराणि (D) जागरूकाः
(ii) ‘कार्याणि’ इति विशेष्यपदस्य विशेषणपदं किम् ?
(A) तानि (B) सर्वाणि
(C) शरीराणि (D) सन्ति
(iii) ‘समर्थाः’ इति पदस्य किं पर्यायपदं गद्यांशे
प्रयुक्तम् ?
(A) व्यग्राः (B) निमग्नाः
(C) सक्षमाः (D) जागरूकाः
(iv) ‘जागरूकाः‘ इति पदस्य विपर्ययपदं किं प्रयुक्तम् ?
(A) निमग्नाः (B) उदासीनाः
(C) व्यग्राः (D) सक्षमाः
मित्रों के साथ साझा करें:
🟢 WhatsApp पर शेयर करें