संस्कृतगीतानि

 1. वन्दे मातरम्

सुजलाम् सुफलाम् मलयज शीतलाम्
शस्य-श्यामलाम् मातरम्॥ वन्दे मातरम्॥ १॥

शुभ्र-ज्योत्सनां पुलकित यामिनीम्
फुल्ल कुसुमित द्रुमदल शोभिनीम्
सुहासिनीम् सुमधुर-भाषिणीम्।
सुखदाम् वरदाम् मातरम्॥ वन्दे मातरम्॥ २॥

कोटि-कोटि कंठ कल-कल निनाद कराले
कोटि-कोटि भुजैर्धृत खरकरवाले,
अबला केनो माँ एतो बोले
बहुबल धारिणीम् नमामि तारिणीम्
रिपुदलवारिणीम् मातरम्॥ वन्दे मातरम्॥ ३॥

तुमि विद्या तुमि धर्म
तुमि हृदि तुमि मर्म
त्वं हि प्राणा: शरीरे
बाहु ते तुमि मां शक्ति
हृदये तुमि मां भक्ति
तोमारइ प्रतिमा गङि मंदिरे मंदिरे॥ वन्दे मातरम्॥ ४॥

त्वं हि दुर्गा दशप्रहरणधारिणीम्
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि त्वां, नमामि कमलाम्।
अमलाम्, अतुलाम्, सुजलाम्, सुफलाम्, मातरम्॥ ५॥

श्यामलाम्, सरलाम्, सुस्मिताम्, भूषिताम्
धरणीम्, भरणीम्, मातरम्॥ वन्दे मातरम्॥ ६॥




2. मृदपि च चन्दनमस्मिन् देशे

मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।
यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥

हरिमन्दिरमिदमखिलशरीरम्
धनशक्ती जनसेवायै
यत्र च क्रीडायै वनराज:
धेनुर्माता परमशिवा॥

नित्यं प्रात: शिवगुणगानं
दीपनुति: खलु शत्रुपरा॥ ॥ यत्र च ..॥

भाग्यविधायि निजार्जितकर्म
यत्र श्रम: श्रियमर्जयति।
त्यागधनानां तपोनिधीनां
गाथां गायति कविवाणी

गंगाजलमिव नित्यनिर्मलं
ज्ञानं शंसति यतिवाणी॥ ॥ 
यत्र च ..

यत्र हि नैव स्वदेहविमोह:
युद्धरतानां वीराणाम्।
यत्र हि कृषक: कार्यरत: सन्
पश्यति जीवनसाफल्यम्

जीवनलक्ष्यं न हि धनपदवी
यत्र च परशिवपदसेवा॥ ॥ 
यत्र च ..




3. जय जय हे भगवति 

य जय हे भगवति सुरभारति तव चरणौ प्रणमाम:।
नादब्रह्मïमयि जय वागीश्वरि शरणं ते गच्छाम:
त्वमसि शरण्या त्रिभुवनधन्या वन्दित-सुर-मुनि-चरणा
नवरसमधुरा कवितामुखरा स्मित-रुचि-रुचिराभरणा॥
जय जय हे……………………(१)

आसीना भव मानसहंसे कुंद-तुहिन-शशि धवले
हर जडतां कुरु बुद्धिविकासं सित पंकज तनु विमले॥
जय जय……………………….(२)

ललितकलामयि ज्ञानविभामयि वीणा-पुस्तक-धारिणि
मतिरास्तां न:तव पदकमले अयि कुण्ठाविषहारिणि
जय जय हे……………………(३)




4. भाति मे भारतम्

भाति मे भारतम्, भाति मे भारतम्।
भूतले भाति मेऽनारतं भारतम् ।। ध्रुवकम्।।
मानवामानितं दानवाबाधितं
निर्जराराधितं सज्जनासाधितम्।
पण्डितै: पूजितं पक्षिभि: कूजितं
भूतले भाति मेऽनारतं भारतम्।। (१)

यस्य संदृश्य संदृश्य शोभा नवा
यस्य संस्मृत्य संस्मृत्य गाथा नवा:।
रोमहर्षो नृणां जायते वै सतां
भूतले भाति तन्मामकं भारतम्।। (२)

यच्च विश्रामभूमिर्मतं प्राणिनां
यस्य चित्ते प्रभ्तोऽवकाशस्तथा।
यत्र चागत्य गन्तुं न कोऽपीच्छुको
भूतले भाति तन्मामकं भारतम्।। (३) 

पण्डितैर्योद्धभिर्वाणिजै: कार्मिकै:
शस्त्रिभि: शास्त्रिभिवर्णिभिर्गोहिभि:।
वानप्रस्थैश्च संन्यासिभिर्मण्डितं
भूतले भाति मेऽनारतं भारतम्।। (४)




5. सादरं समीहताम्

 

सादरं समीहताम् वन्दना विधीयताम्
श्रद्धया स्वामातृभू-समर्चना विधीयताम्॥

आपदो भवन्तु वा, विद्युतो लसन्तु वा
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा
धीरता न हीयतां, वीरता विधीयतां
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥ सादरं॥

प्राणदायिनी मुदा त्राणदायिनी सदा 
इयं सुधाप्रदायिनी शक्तिमुक्तिभक्तिदा
एतदीयवन्दने सेवनेऽभिनन्दने
साभिमानमात्मनो जीवनं प्रदीयताम्॥ ॥ सादरं॥




6. मनसा सततं स्मरणीयम्

मनसा सततं स्मरणीयम्
 वचसा सततं वदनीयम्
 लोकहितं मम करणीयम् ॥ लोकहितं॥

 न भोगभवने रमणीयम्
 न च सुखशयने शयनीयनम्
 अहर्निशं जागरणीयम्
 लोकहितं मम करणीयम् ॥ मनसा॥

 न जातु दु:खं गणनीयम्
 न च निजसौख्यं मननीयम्
 कार्यक्षेत्रे त्वरणीयम्
 लोकहितं मम करणीयम् ॥ मनसा॥

 दु:खसागरे तरणीयम्
 कष्टपर्वते चरणीयम्
 विपत्तिविपिने भ्रमणीयम्
 लोकहितं मम करणीयम् ॥ मनसा॥

 गहनारण्ये घनान्धकारे
 बन्धुजना ये स्थिता गह्वरे
 तत्रा मया संचरणीयम्
 लोकहितं मम करणीयम् ॥ मनसा॥


7. अवनितलं पुनरवतीर्णा स्यात्

अवनितलं पुनरवतीर्णा स्यात्

संस्कृतगङ्गाधारा ।

धीरभगीरथवंशोऽस्माकं

वयं तु कृतनिर्धाराः ॥


निपततु पण्डितहरशिरसि

प्रवहतु नित्यमिदं वचसि

प्रविशतु वैयाकरणमुखं

पुनरपि वहताज्जनमनसि

पुत्रसहस्रं समुद्धृतं स्यात्

यान्तु च जन्मविकाराः ॥


ग्रामं ग्रामं गच्छाम

संस्कृतशिक्षां यच्छाम

सर्वेषामपि तृप्तिहितार्थं

स्वक्लेशं न हि गणयेम

कृते प्रयत्ने किं न लभेत

एवं सन्ति विचाराः ॥


या माता संस्कृतिमूला

यस्या व्याप्तिस्सुविशाला

वाङ्मयरूपा सा भवतु

लसतु चिरं सा वाङ्माला

सुरवाणीं जनवाणीं कर्तुं

यतामहे कृतिशूराः ॥


8. संस्कृतस्य सेवनं संस्कृताय जीवनम् 

संस्कृतस्य सेवनं, संस्कृताय जीवनम्

लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥ ध्रुवपदम्॥


कार्यगौरवं स्मरन् विघ्नवारिधिं तरन्

लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यमः स्वयम् ।

यावदेति संस्कृतं, प्रतिजनं गृहं गृहं

तावदविरता गतिस्तावदनुपदं पदम् ॥ १॥


कामये न सम्पदं भोगसाधनं सुखं

किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् ।

गौरवास्पदं पदं, नेतुमद्य संस्कृतं

बद्धकटिरयं जनो निधाय जीवनं पणम् ॥ २॥


भाषिता च वागियं भाषिता भवेद् ध्रुवं

भाष्यमाणतां समेत्य राजतां पुनश्चिरं

भरतभूमिभूषणं सर्ववाग्विभूषणं

संस्कृतिप्रवाहकं संस्कृतं विराजताम् ॥ ३॥


9. सुन्दरसुरभाषा

मुनिवरविकसित कविवरविलसित

मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ॥ ॥मुनिवर॥

वेदव्यास-वाल्मीकि-मुनीनाम् 
कालिदास-बाणादिकवीनाम् ।
पौराणिक-सामान्य-जनानाम्
जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥ ॥मुनिवर॥

श्रुतिसुखनिनदे सकलप्रमोदे
स्मृतिहितवरदे सरसविनोदे ।
गति-मति-प्रेरक-काव्यविशारदे
तव संस्कृतिरेषा, सुन्दरसुरभाषा ॥२॥ ॥मुनिवर॥

नवरस-रुचिरालङ्कृति-धारा
वेदविषय-वेदान्त-विचारा ।
वैद्य-व्योम-शास्त्रादि-विहारा
विजयते धरायां, सुन्दरसुरभाषा ॥३॥ ॥मुनिवर॥

SamskritGyaan

​I am a Samskrit educator dedicated to sharing the beauty and logic of this ancient language with the world. My goal is to simplify complex grammar and provide clear, high-quality resources that anyone can use to begin or deepen their journey. Through SamskritGyaan, I strive to make the "Language of the Gods" accessible, understandable, and enjoyable for every learner.

Post a Comment

Previous Post Next Post